________________ दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / वीर ! त्वमेव तु जगत्यसपत्नवीर स्त्रैलोक्यभूतचरिताप्रतिघप्रकाशः // 28 // चन्द्रांशव इति–'कमलगर्भविषक्तमुग्धाश्चन्द्रांशवः, कुमुदोदरेष्वजातकिरणः सूर्योऽपि, हे वीर ! त्रैलोक्यभूतचरिताप्रतिघप्रकाशो जगत्यसपत्नवीरस्त्वमेव तु' इत्यन्वयः / कमलगर्भविषक्तमुग्धाः कमलगभै सङ्कुचितपद्मपत्रनिचये, विषक्तेमध्ये विशेषेण सम्बन्धे, मुग्धाः-असमर्थाः कातराः, अन्तः प्रविश्य कमलं प्रकाशयितुमनिपुणा इति यावत्, चन्द्रांशवः चन्द्रकराः, कुमुदोदरेषु रात्रौ विकाशिनि दिवसेऽवि काशिनि पुष्पविशेषे कुमुदसंज्ञा, कुमुदस्य पुष्पविशेषस्य उदरेषु-गर्भभागेषु, अजातकिरणः एतत्स्थाने 'अयातकिरणः' इति पाठः सम्यगाभाति, अयाताः अविष्टाः किरणाः यस्य सोऽयातकिरणः. कुमुदोदरप्रवेशपरामुखकिरणः, सर्योऽपि दिनकरोऽपि, हे वीर ! त्रैलोक्यभूतचरिताप्रतिघप्रकाशः त्रैलोक्ये त्रिभुवने यानि भूतानि तेषां चरितेषु--हिताहिताचरणेषु, अप्रतिघः प्रतिबन्धरहितः प्रकाशो यस्य स त्रैलोक्यभूतचरिताप्रतिघप्रकाशः, त्रैलोक्यगताशेषभूताचरणप्रकाशक इत्यर्थः, जर्गात संसारे. असपत्नवीरः सपत्नः प्रतिपक्षो वीरो यस्य स सपत्नवीरः, न विद्यते सपत्नवीरो यस्य सोऽसपन्नवीरः, अन्यामभिभवनीयपराक्रमशालीत्यर्थः, तुर्विशिनष्टि-त्वमेव भवानेव, त्वत्तोऽन्य ईदृशो नास्तीत्यर्थः // 28 // चन्द्र सूर्याप्रकाश्यप्रकाशकजिनप्रकाशविभव मातुं न कोऽपि समर्थ इत्यमेयप्रकाशविभवस्तं जिनस्तौति इति यश्वाम्बुदोदरनिरङ्कुशदीप्तिरर्क__स्तारापतिश्च कुमुदधुतिगौरपादः / ताभ्यां तमोगुपिलमन्यदिव प्रकाश्यं कस्तं प्रकाशविभवं तव मातुमर्हः // 29 // यश्चेति-अन्वयो यथाश्रुतानुसार्येव / यश्च यत्तदोनित्यसम्बन्ध इति ताभ्यामित्युत्तरस्थतच्छब्दाभिसम्बद्धो य इति-यः पुनः, अम्बुदोदरनिरङ्कुशदीप्तिः