________________ दिवाकर कृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / अत्र 'अम्बुजोदरनिरङ्कुशदीप्तिः' इति पाठः सम्यगाभाति, अम्बुजस्य-अस्य, उदरे-अन्तः, निरङ्कशो-अप्रतिघा, दीप्तिः-प्रकाशो यस्य सोऽम्बुजोदरनिरङकुशदीप्तिः, अर्कः सूर्यः, च पुनः, तारापतिः चन्द्रः, कुमुदद्यतिगौरपादः कुमुदस्य --चन्द्रविकाशिपुष्पविशेषस्य द्युत्या-कान्त्या, गौरा:- वेताः, पादः-किरणा यस्य स कुमुदद्युतिगौरपादः, कुमुदद्युत्यत्यन्तसम्बन्धोपजातातिश्वेतकिरणश्चन्दः, ताभ्यां रविचन्द्राभ्याम् , प्रकाश्य प्रकाशनीय वस्तु, तमोगुपिलम् अनावृतबाह्यभागमात्रे प्रकाश्यतया तदन्येषु चावृतान्तरस्थप्रचुरभागेष्वप्रकाश्यतया अज्ञात प्रचुरभागपर्यवसितान्धकारगहनम्, उत्तरत्रोपात्ततच्छब्दसामर्थ्याद् ‘यतः' इति लभ्यते; तेन यतो. ऽन्यदिव यतः सकल देशावच्छेदेन वीरप्रकाशविभवप्रकाश्यादन्यदिव वर्तत इति शेषः, अतः तव जिनस्य, तं चन्द्र सूर्यप्रकाशविलक्षणं तमोलेशासंस्पृष्टतया वस्तुमात्रविषयकम् , प्रकाशविभवं प्रकाशैश्वर्यम् , मातुम् इयदेतदित्येवं परिच्छेत्तुम् , कोऽर्हः ?-कः समर्थः ?-न कोऽपि समर्थः // 29 / / किञ्चिद्विषयकं ज्ञानं वर्तमान, किञ्चिद्वषयकं ज्ञानं भावि, किञ्चिद्विषयकं ज्ञानं भूतमित्येवं विभजनं, किञ्चिद् वस्तु ज्ञातं इति, किञ्चिच्च ज्ञातव्यमित्येवं वा विभजनं न भगवन्तमधिकृत्य सम्भवति. युगपदेव नित्यविषमस्वभावविश्वविषयकसाक्षात्कारज्ञानवत्त्वाद् , अत: ोत्कृष्टतया नमस्यो भगवान् वीर इति तस्मै भगवते महावीरायाचिन्त्यचरिताय नित्यं नमस्कारोऽस्त्वित्याह नाथान् विवित्ससि न वेत्स्यसि नाप्यवेत्सी न ज्ञातवानसि न तेऽच्युत ! वेद्यमस्ति / त्रैलोक्यनित्यविषमं युगपच्च विश्वं __ पश्यस्यचिन्त्यचरिताय नमोऽस्तु तुभ्यम् // 30 // नार्थानिति--'अर्थान् न विवित्ससि न वेत्स्यसि नाप्यवेत्सी: न ज्ञातवानसि, हे अच्युत ! ते वेद्य नास्ति, त्रैलोक्यनित्यविषम विश्वं युगपच्च पश्यसि, अचिन्त्यचरिताय तुभ्यं नमोऽस्तु' इत्यन्वयः / हे वीर ! त्वम् अर्थान् पदार्थान् , न विवित्ससि न वेत्तुमिच्छसि, न वेत्स्यसि अर्थानित्यनुवर्तते, अर्थविषयकभविष्यत्कालीनज्ञानवान्न त्वं, नाप्यवेत्सीः अर्थविषयकभूतकालीनज्ञानवान्न