________________ दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिंशिका। . 71 त्वम् , न ज्ञातवानसि वर्तमान कालिकज्ञानवांस्त्वं न, हे अच्युत ! सर्वदा अविनाशिस्वरूप ! ते तव, वेद्य ज्ञातव्यम्, नास्ति न विद्यते, अच्युतेति संबोधनसामर्थ्यादव नार्थान् विवित्ससीत्यादिनिषेधानां समन्वयो भगवत्युपपद्यते, अविनाशिनि भगवति विनाशिवर्तमान-भविष्यदतीतज्ञानसम्बन्धस्य तादात्म्यलक्षणस्याम्भवादिति बोध्यम्, त्रैलोक्यनित्यविषमं त्रयाणां लोकानां समाहार एव त्रैलोक्यं तस्मिन् नित्य-सर्वदा, विषम-किञ्चिदिष्टं किञ्चिदनिष्टं किञ्चदुपेक्ष्यं यदेवैकस्य दुःखसाधनं तदेवान्यस्य सुखसधनं यदेवैकस्य मित्रं तदेवान्यस्य शत्रुरित्येवं विषमम्, विश्व-निखिलं वस्तु, पश्यसि साक्षात्करोषि, ततः अचिन्त्यचरिताय अचिन्त्यं चिन्तयितुमशक्यम्, चरितमाचरणं यस्य सोऽचिन्त्यचरितस्तस्मै, तुभ्य भगवत वीराय, नमः स्वावधिकोत्कृष्टत्वप्रकारकज्ञानानुकूलव्यापारलक्षणो नमस्कारः, अस्तु भवत्वित्यर्थः // 30 // भद्भुतोऽप्यशेषपदार्थस्वभावो जिनज्ञानसमुद्रान्तर्गतः समान एवेति जिने नाद्भुतो भवतीत्याह शब्दादयः क्षणसमुद्भवभङ्गशीला: संसारतीरमपि नास्त्यपरं परं वा / तुल्यं च तत् तव तयोरपरोक्षगाप्सु .. ‘त्वय्यद्भुतोऽप्ययमनद्भुत एव भावः // 31 // शब्दादयं इति- 'शब्दादयः क्षणसमुद्भुवभङ्गशोलाः, अपरं परं वा संसारतीरमपि मास्ति, तव अपरोक्षगाप्सु तयोंस्तत् तुल्यम् , अद्भुतोऽप्ययं भावः, त्वयि अनद्भुत एव' इत्यन्वयः / शब्दादय इति-आदिपदादन्यपदार्थानामुपप्रहः, बौद्धदिशैलीमनरुध्यादौ शब्दोपेन्यासः, क्षणसमुद्भवमङ्गशीलाः क्षणे-एकैकस्मिन् अविभाज्यकालांशे, यः समुद्भवः वर्तमानपर्यायापेक्षया समु. त्पत्तिः, य च भङ्गः-पूर्वपर्यायापेक्षया विनाशः, तौ शीलं-स्काको मेषां ते तथा, यद्वा क्षणे-वर्तमानक्षणे वर्तमानपर्यायापेक्षया यः समुद्भवः, य च क्षणे-तदव्यवहितोत्तरक्षणे वर्तमानपर्यायस्य भङ्गः, तौ शीलं येषां ते तथा, यद्वा क्षणेन