________________ दिवाकर कृता किरणावलीकलिता द्वितीया द्वात्रिशिका / AA समुद्भवो यस्य तादृशो यो भङ्गः, स शील येषां ते तथा, क्षणिकसमुद्भवस्येदमुपलक्षणम् , वस्तूनां प्रतिक्षणं पर्याययाः परिवर्तन्ते, तत्र पूर्वपूर्वपर्यायापेक्षया नाशः, उत्तरोत्तरपर्यायापेक्षया चोत्पत्तिरिति संस्थितिः, एतावता समुद्भवस्य भङ्गस्य च क्षणमितः काल इति दर्शितम् , अपरम् आदिभूतम् , च पुनः, परम् अन्तभूतम् , संसारतीरमपि नास्ति संसार:-जीवाजीवादिपदार्थसमूहात्मकं जगत . तीरपद समभिव्याहारात् तदात्मको यः सागरस्तस्य तीरम्अवधिभागः, अपिस्त्वथे, नास्ति-न विद्यते, संसारसागरस्यादिरन्तश्च नास्तीत्यर्थः, अद्भुतोऽयं भावः, यदुत-उत्पाद-विनाशयोः क्षणेन कालनियमनम् , संसारसागरस्य तु सर्वथा न, हे जिन ! तव सर्वविदोभवतः, अपरोक्षगाप्सु अपरोक्षं-प्रत्यक्षात्मकं यत् केवलज्ञानम् , तद् गच्छन्ति तद्रूपसागरें निज्जन्तीति अपरोक्षगाः, एवंविधा ये नि'खलाः पदार्थास्तद्रूपासु अप्सु-जलेषु, जलतरङ्गवदन्नुपलं नवनवदशामापद्यमाना ये निखिलाः पदार्थास्तेषु तव ज्ञानादशे संक्रान्तेषु सत्सु, तयोः उत्पाद-विनाशयोः ‘पटोलपत्रं पित्तघ्नं नाडी तस्य कफापहा" "दशैते राजमातङ्गारतस्वामी तुरङ्गमाः” इत्यादिवद् गौणयोरपि परामर्शोऽत्र / तुल्यं समानम् , तत् संसारतीरम् , ' यथा भवान् समुद्भव-भङ्गौ व्यक्त्यपेक्षया सावधिको प्रवाहापेक्षया निरवधिको पश्यति तथा संसारमपि व्यक्त्यपेक्षया सावधिक प्रवाहापेक्षया निरवधिकं पश्यतीत्यर्थः, अतः अद्भुतोऽपि आश्चर्य जनकोऽपि, अयं भावः अधुनोपवर्णनेन हृदि वर्तमानो भावः, त्वयि सकललोकालोकावलोकिनि जिने भवति, अनदभुत एव नाश्चर्यजनकः // 31 // वसन्ततिलकावृत्तेनैतावत्स्तुतिपद्यकदम्बकं विरच्य द्वितीयां द्वात्रिंशिकां परिपूर्णा कर्तु कामोऽन्तिमपद्य पृथ्वीवृत्तेन विरचयतिअनन्यमतिरीश्वरोऽपि गुणवाक समाः शास्वती र्यदा न गुणलोकपारमनुमातुमीशस्तव / पृथग्रजनलघुस्मृतिर्जिन ! किमेव वक्ष्याम्यह मनोरथविनोदचापलमिदं तु नः सिद्धये // 32 // [ पृथ्वी]