________________ दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / 73 अनन्यमतिरिति- जिन ! यदाऽनन्यमतिरीश्वरोऽपि, शाश्वतीः समाः, गुणवाक् तव गुणलोकपारमनुमातुमीशो न, [ तदेति दृश्यं ] पृथगजनलघुस्मृतिरहं किमेव वक्ष्यामि, इदं तु मनोरथविनोदचापलं नः सिद्धये' इत्यन्वयः / हे जिन :, यदा अनन्यमतिः अन्या-अन्यविषया जिनगुणव्यतिरिक्तपदार्थविषयेति यावत् ; मतिः-ज्ञानं यस्य सोऽन्यमतिः, नान्यमतिरनन्यमतिः, यद्यपि सर्वदा सर्वविषयकज्ञानवानीश्वरः कदाप्यनन्यमतिर्न भवत्येब तथाप्युत्प्रेक्ष्यतेशङ्के अनन्यमतिरिति, जिनगुणैकतानचित्तः, ईश्वरोऽपि ऐश्वर्यशाल्यपि पुरुषोत्तमः, शाश्वतीः समाः असङ्ख्येयवर्ष यावत् , गुणवाक् गुणवचनतत्परः, तव जिनस्य, गुणलोकपारं गुणनिकरान्तम् , अनुमातुम् एतावन्तो जिनस्य गुणा इत्येवं परिच्छित्तिविषयं कर्तुम् , ईशः समर्थः, न नैव, यदेश्वरोऽपि तव गुणनिकरपरिच्छित्तिकरणे न समर्थस्तदा, पृथगजनलघुस्मृतिः रथ्यापुरुषादिसाधारणजनवदल्पविषयकस्मरणवान् यावदनुभूतं तावदपि स्मर्तुमसमर्थः कतिपयानुभवविषयविषयकस्मरणवानिति यावत्, अहं सिद्धसेनदिवाकरः, किमेव वक्ष्यामि न वक्तुं योग्योऽस्मि, तर्हि किमिदं क्रियत इत्याकाङ्क्षायामाह-इदं विति- प्रस्तुतजिनगुणवर्णनं पुनरित्यर्थः; मनोरथविनोदचापलं मनोरथः त्वद्गुणगानकरणाभिलाषः, विनोदः-त्वद्गुणगानजन्यानन्दोल्लासः, तत्सम्पादनाय, चापलं बालचेष्टितम् , नः अस्माकम् , सिद्धये मोक्षसुखाय, क्रीडया कृतमपि जिनस्तवनं भक्तिभरोल्लसितं परम्पर या मोक्षप्राप्तये स्यादेवेत्यर्थः / “असौ जसयला वसु-प्रहयतिश्च पृथ्वी गुरुः” इति लक्षणलक्षितत्वात् पृथ्वीवृत्तमिदम् // 32 // गम्भीरार्थसमष्टिमात्रखचिता क्वेयं स्तुतिप्रहा वाहं मन्दमतिस्तदर्थकरणे वैषम्यमेतत् परम् / व्याख्यानाङ्गतया तु खेलतुतरां वीरो मनोमन्दिरे __ भावं मन्दतरोऽवगच्छतु ततो यत्नो ममायं फली // 1 // इति श्रीतपोगच्छाधिपति-शासनसम्राट-सर्वतन्त्रस्वतन्त्र-श्रीविजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्नेतिपदालङ्कृतेन . .श्रीविजयलावण्यसूरिणा विरचितायां किरणावलीनाम्न्यां विवृतौ द्वितीया द्वात्रिंशिकाव्याख्या समाप्ता //