________________ तृतीय द्वात्रिंशिका / भक्त्या श्रीनेमिसूरेरधिगतविविधव्याकृतिप्रक्रियोत्था नेकग्रन्थार्थसारो जिनमतनिरतोऽधीतसिद्धान्तसारः / सूरिविण्यनामा स्वजनिसफलतैकान्तसिद्धयै तृतीये भागे द्वात्रिंशिकानां विवृतिमिह शुभां गूढसारे तनोति // 1 // पुरुषोत्तमत्वाऽचिन्त्यगुणतादात्म्यापन्नत्वादिधर्मवतो जिनस्य स्तुतिमारभते अनन्यपुरुषोत्तमस्य पुरुषोत्तमस्य क्षिता वचिन्त्यगुणसात्मनः प्रभवविक्रियावर्त्मनः / प्रसादविजितस्मृतिर्गणयितुं मतिप्रोद्गमं स्तवं किल विवक्षुरस्मिं पुरुहूतगीतात्मनः // 1 // [पृथ्वी ] अनन्यपुरुषोत्तमस्येति / “क्षितौ अनन्यपुरुषोत्तमस्य पुरुषोत्तमस्य अचिन्त्यगुणसात्मनः प्रभवविक्रियावमनः पुरुहूतगीतात्मनः स्तवं मतिप्रोद्गमं गणयितुं प्रसादविजितस्मृतिः विवक्षुरस्मि किल" इत्यन्वयः / क्षितौ पृथिव्याम् , अन्यन्यपुरुषोत्तमस्य अन्येषामन्यो वा पुरुषोत्तमोऽन्यपुरुषोत्तमः, न अन्यपुरुषोत्तमोऽनन्यपुरुषोत्तमस्तस्य, वेदान्त्यायभिमतपुरुषोत्तमभिन्नस्य जीवभिन्नेश्वर. स्वरूपपुरुषोत्तमभिन्नस्य वा "द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च / क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते // 1 // उत्तमः पुरुषस्त्वन्यः, परमात्मेत्युदाहृतः / / यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः / / 2 // यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः। भतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः // 3 // " गीता-अ० 16, श्लो० 16, 17, 18] इत्यादिगीतावचनेभ्योऽन्यपुरुषोत्तमस्वरूपावगतिर्भवति, तत्र द्वाविमाविति लोकत्रयव्याख्यानं मधुसूदनस्येत्थम् - एवं सोपाधिकमात्मानमुक्त्वा क्षराऽक्षरशब्दवाच्यकार्य-कारणोपाधिद्वयवियो. .गेन निरुपाधिकं शुद्धमात्मानं प्रतिपादयति कृपया भगवानर्जुनाय त्रिभिः श्लोकैः