________________ दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / 75 द्वाविमौ-पृथप्राशीकृतौ, पुरुषौ-पुरुषोपाधित्वेन पुरुषशब्दव्यपदेश्यौ, लोके-संसारे, कौ तावित्याह-क्षरश्चाक्षर एव च, क्षरतीति क्षरो विनाशी कार्यराशिरेकः पुरुषः, न क्षरतीत्यक्षरो विनाशरहितः, क्षराख्यस्य पुरुषस्योत्पत्तिबीजं भगवतो मायाशक्तिद्वितीयः पुरुषः, तौ पुरुषौ व्याचष्टे स्वयमेव भगवान्–'क्षरः सर्वाणि भूतानि'-समस्तं कार्य जातमित्यर्थः, कूटस्थः-कूटो यथार्थवस्त्वाच्छादनेनायथार्थवस्तुप्रकाशनं वञ्चनं मायेत्यनर्थान्तरम् , तनावरणविक्षेपशक्तिद्वयरूपेण स्थितः कूटस्थः, भगवान् मायाशक्तिरूपः कारणोपाधिः संसारबीजत्वेनानन्त्यादक्षर उच्यते, केचित् तु-क्षरशब्देनाचेतनवर्गमुक्त्वा 'कूटस्थोऽक्षर उच्यते' इत्यनेन जीवमाहुस्तन्न सम्यक्, क्षेत्रज्ञस्यैवेह पुरुषोत्तमत्वेन प्रतिपाद्यत्वात् , तस्मात् क्षराऽक्षरशब्दाभ्यां कार्यकारणोपाधी उभावपि जडावेवोच्येते इत्येवमुक्तम् // 16 // (1) आभ्यां क्षराऽक्षराभ्यां विलक्षणः क्षराऽक्षरोपाधिद्वयदोषेणास्पष्टो नित्यशुद्ध. बुद्धमुक्तस्वभाव उत्तमः-उत्कृष्टतमः पुरुषस्त्वन्यः-अन्य एवात्यन्तविलक्षणः, आभ्यां क्षराऽक्षराभ्यां जडराशिभ्यामुभयभासकस्तृतीय श्चेतनराशिरित्यर्थः, परमात्मेत्युदाहृतः-अन्नमय-प्राणमय-मनोमय-विज्ञानमया-ऽऽनन्दमयेभ्यः पञ्चभ्योऽविद्याकल्पितात्मभ्यः परमः-उत्कृष्टोऽकल्पितो "ब्रह्म पुच्छं प्रतिष्टा" [तैत्ति. 2 / 5] इत्युक्त आत्मा च सर्वभूतानां प्रत्यक्चेतन इयतः परमात्मेत्युक्तो वेदान्तेषु, यः परमात्मा लोकत्रयं-भू-भुवः-स्वराख्यं, सर्व जगदिति यावत्, आविश्य-स्वकीयया मायाशक्त्याऽधिष्ठाय. बिति-सत्तास्फूतिप्रदानेन धारयति पोषयति च, कीदृशः ? अव्ययः-सर्वविकारशून्यः; ईश्वरः-सर्वस्य नियन्ता नारायणः, स उत्तमः पुरुषः परमात्मेत्युदाहृत इत्यन्वयः, “स उत्तमः पुरुषः” [छां. 8112 / 3] इति श्रुतेः // 17 / / (2) इदानीं यथाव्याख्यातेश्वरस्य क्षराऽक्षरविलक्षणस्य पुरुषोत्तम इत्येततप्रसिद्धमामनिर्वचनेन ईदृशः परमेश्वरोऽहमेवेत्यात्मानं दर्शयति भगवान् "ब्रह्मणो हि प्रतिष्ठाहं तद्धाम परमं मम" इत्यादिप्रागुक्तनिजमहिमनिर्धारणाय-यस्मात् क्षरंकार्यत्वेन विनाशिनं मायामयं संसारवृक्षमश्वत्थाख्यम्, अतोतः अतिक्रान्तः, अहं परमेश्वरः, अक्षरादपि-मायाख्यादव्याकृतात् “अक्षरात् परतः परः” इति पञ्चम्यन्ताक्षरपदेन श्रुत्या प्रतिपादितात् संसारवृक्षबीजभूतात् सर्वकारणादपि,