________________ 76 दिवाकरकृता किरणावलोकलिता तृतीया द्वात्रिंशिका। चोत्तमः-उत्कृष्टतमः, अतः क्षराक्षराभ्यां पुरुषोपाधिभ्गमध्यासेन पुरुषपदव्यपदेश्याभ्यामुत्तमत्वात् , अस्मि-भवामि, लोके वेदे च प्रथितः-प्रख्यातः, पुरुषोत्तम इति, स उत्तमः पुरुष इति वेदे उदाहृत एव. लोके च कविकाव्यादौ "हरियथैकः पुरुषोत्तमः स्मृतः' इत्यादि प्रसिद्धम् इति / / 18 / / (3) पुरुषोपाधित्वेन कल्पितपुरुषपदव्यपदेश्याभ्यां क्षरा-ऽक्षराभ्यामुत्तमत्वेन पुरुषोत्तम इति पराभिमतो हरिरन्यपुरुषोत्तमो न वस्तुतः पुरुषोत्तम इति तदन्योऽनन्यपुरुषोत्तमस्तस्येत्यर्थः; पुरुषोत्तमस्य पुरुषेषु-जीवेषु, केवलज्ञानादिमत्त्वेनोत्कृष्टस्य, कर्मावरणापगमानन्तरं शुद्धबुद्धमुक्तत्वान्यप्यस्येति तद्वत्त्वेनाप्युत्कृष्टस्य; अचिन्त्यगुणसात्मनः अचिन्त्याः-चिन्तयितुमशक्या गुणा अचिन्त्यगुणास्तैः सात्मनः-ऐक्यमापन्नस्य, एवं च अचिन्त्य गुणैक्यमापन्नस्याचिन्त्यत्वं सिद्ध भवति; प्रभवविक्रियावर्त्मनः प्रभवाः-जन्मपरंपरा, तेषां या विक्रिया-विरुद्धा क्रिया, दर्शन-ज्ञान चारित्रपरिशीलनमित्यर्थः, तस्या वर्त्मनः-मार्गस्य, प्रवर्तकस्येत्यर्थः; पुरुहूतगीतात्मनः पुरुहूतः-पुरन्दरः, तेन गीतः-स्तुतः आत्मा यस्य स पुरुहूतगीतात्मा, तस्यः मतिप्रोद्गमं मतेः-प्रतिभायाः, प्रकर्षणोद्गमःआविर्भावो यत्र तत् मतिप्रोद्गम, स्तवं तद्गुणगौरवोपवर्णनम्, गणयतुं भूयः परावर्तयितुम् , प्रसादविजितस्मृतिः भगवतः प्रसादेन-'अयमविचलिताशेषानुभूतविषयकस्मृतिमान् भवतु' इत्याकारकेच्छालक्षणेनेव भगवत्सांमुख्येन, विजितास्ववशे स्थापिता स्वाधीनेति यावत्, स्मृतिः-स्मरणं यस्य स प्रसादविजित स्मृतिः, यदा यं गुणमुपादाय भगवन्तं स्तोतुमिच्छति तदा तद्गुणस्मृतिर्भगवत्प्रसादाद् भवत्येव, भगवत्प्रसादाभावे तु तद्गुणस्मरणाभावात् कथं तं गुणमुपा दाय भगवत्स्तुतिः प्रोल्लसेदित्यभिसन्धिः; विवक्षुः वक्तुमिच्छुः, भगवतः स्तवन तु स्वमहिम्नैव सुप्रतिष्टितं, केवलं म्ववचननिर्मलीकरणाय तद् वक्तुकामोऽहमि त्याशयः, अस्मि अहं सिद्धसेनदिवाकरः, किलेति सम्भावनायां, सम्भावयाम्यह मित्थम् , स्तववचनोद्गमस्तु तत्प्रसादैकलभ्य इत्यर्थः // . 'ज-सौ जस-य-ला वसु-ग्रहयतिश्च पृथ्वी गुरुः / " इति लक्षणलक्षितत्वात् पृथ्वीवृत्तमिदम् , एवमप्रेऽपि // 1 //