________________ दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / हे वीर ! त्वदाश्रयणकृतादरा अनेकान्तवादिन एकान्तवादिभिः शटैरपाकृता अपि सुखमध्यासत इति लोकानां त्वमेव शरणमसीत्याह व्यलीकपथनायकैहतपरिश्रमच्छद्मभि निरागसि सुखोन्मुखे जगति यातनानिष्ठुरैः / अहो ! चिरमपाकृताः स्म शठवादिभिर्वादिभि स्त्वदाश्रयकृतादरास्तु वयमद्य वीर ! स्थिताः // 2 // व्यलीकपथनायकैरिति / “हे वीर ! व्यलीकपथनायकैहतपरिश्रमरछद्मभिर्निरागसि सुखोन्मुखे जगति यातनानिष्ठुरैः शठवादिभिर्वादिभिः, चिरमपाकृताः स्म वयम् , अद्य अहो त्वदाश्रयकृतादरास्तु स्थिताः" इत्वन्वयः / व्यलीकपथनायकैः व्यलीकः- अभीष्टप्राप्त्यजनकत्वाच्छशशृङ्गादिकल्पः, पन्थाःमुक्त्यायुपायोपदर्शनमार्गो येषां ते एकान्तवादिनो व्यलोकपथास्तेषां नोयकाःतत्तदर्शनोपदेष्टारो व्यलोकपथनायकाः, तत्तद्दर्शनोपदिष्टपदार्थतत्त्वप्ररूपका अपि नथा, तैय॑लीकपथनायकैः; हितपरिश्रमच्छद्मभिः हिताय-पश्वादीनां स्वर्गाहोष्टवस्तुप्रापणाय, परिश्रमः-यज्ञीयवधादिकोऽस्माकं प्रयत्नः, इति छद्म-माया वेषां तादृशैः निरागसि अपराधरहिते, सुखोन्मुखे सुखं मे भवत्विति कामनया सुखोपायान्वेषणप्रवणे, जगति जगदन्तर्गतजडपदार्थस्य सुखोन्मुखत्वाभा. ताज्जगत्पदमत्र चेतनमात्रपरमिति जोवे, यातनानिष्ठुरैः पीडाजनने दयालवहितैः, निष्करुणैः, अत एव यज्ञादावादिजीवघातपरायणैः; शठवादिभिः राठाः-साधुजन द्वेषशालिनश्च-वादिनश्च-युक्तिहीनवचनलम्पटाच शठवादिनस्तैः; पादिभिः एकान्तवादिभिः, चिरं यावन्न जिनमतपरिज्ञातं तावत्कालम् , भपाकृताः कुयुक्तिभिनिराकृताः स्म, वयं जनाः, अद्य जिनमतसुदृढनिरूढश्रद्धाकाले, अहो आश्चय, त्वदाश्रयकृतादरास्तु जिनाश्रयणकृतभक्तयः पुनः, रदेव जिनेनोक्तं तदेव सत्यमित्येवं जिन प्रति बहुमानेन जिनैकसेवानिरताः, स्थिताः परानभिभवनीयस्वस्वरूपव्यवस्थिताः, परैरेकान्तवादिभिश्चालयितुमक्या इत्यर्थः // 2 //