________________ wwwwwwwwwwwwwwwwwwwww दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / "हे जिन ! भवता यथा संसारोऽस्मान् प्रति उपदर्शितस्तथैव स सत्ताम वलम्बते, अन्योपवर्णितस्तु व्यलीक एवेत्युपदर्शयतिअनादिनिधनः क्वचित् कचिदनादिरुच्छेदवान् प्रतिस्वमविशेष जन्मनिधनादिवृत्तः पुनः। भवव्यसनपञ्जरोऽयमुदितस्त्वया नो यथा तथाऽयमभवो भवश्च जिन ! गम्यते नान्यथा // 3 // अनादिनिधन इति / 'अयं भवव्यसनपञ्जरः क्वचिदनादिनिधनः, क्वचिदनादिरुच्छेदवान्, पुनः प्रतिस्वमविशेषजन्मनिधनादिवृत्तः, हे जिन ! त्वया यथा नः उदितः तथाऽयमभवो भवश्च गम्यते, अन्यथा न" इत्यन्वयः / अयं सर्वेषां प्रत्यक्षविषयः केनाप्यपलपितुमशक्यः, अनुभूयमानस्यापलापासम्भवात् भवव्यसनपञ्जरः भवति - उत्पद्यतेऽस्मिन् जीवोऽजीवश्चेति भवः-संसारः स एव पुनः पुनरुपादोयमानत्वाद् व्यसनं, तदेव स्वान्तर्जीवावस्थानहेतुत्वाद् बहिनिंगमनरोध. कत्वाच्च पञ्जरः; स कीदृशः ? क्वचित् अनन्तसंसारे अभव्यजीवे, अनादिनिधनः आदिश्च निधनं च आदिनिधने, न विद्यते आदि-निधने यस्य सोऽनादिनिधनः आद्यन्तरहित इत्यर्थः; क्वचिद् भव्यजीवविशेषे, अनादिः आदिरहितः प्रवाहत आदिरहितः, पूर्व संसाराभावे पश्वादपि संसारो न स्यादेव, उच्छेदवान् केवलज्ञानाद्यवाप्तौ कर्माष्टकविगमे सत्यत्यन्तमुच्छिद्यते संसारः; एवं वैलक्षण्ये सत्यपि पुनः प्रतिस्वं प्रतिव्यक्ति, अविशेषजन्मनिधनादिवृत्तः अविशेषेण-सामान्येन, जन्मनिधनादिभिः-उत्पत्ति-मरणादिभिः वृत्तः- पूर्णः संसारपञ्जरगतानामशेषप्राणिनां प्रतिव्यक्ति जन्म-मरणदुःखमविशिष्टं भवत्येव, तदुक्तम् “जातस्य हि ध्रुको मृत्युध्रुव जन्म मृतस्य च / तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि // 4 // जरा तु अल्पायुषो न भवति, अतो न तस्या उपादानम् अविशेषेण प्रतिव्यक्ति तस्या अप्रवृत्तः, तत्र "जन्म-जरा-मरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः / लिङ्गस्यापि निवृत्तेस्तस्माद् दुःखं स्वभावेन // 5 / /