________________ दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / 79 इति सांख्याचार्यवचनं तु यस्य पूर्णायुषो न कस्यचिद् रोगादेः सम्भवस्तस्यापि कारणान्तरजन्यदुःखाभावेऽपि जन्मादिजन्यं दुःखं भवत्येवेत्येतदभिप्रायकम् / हे जिन ! एवंस्वरूपो भवव्यसनपञ्जरः, नः अस्माकं, यथा येन प्रकारेण, अयं भवव्यसनपञ्जरः अभवः न विद्यते स्वाधिकरणक्षणध्वंसानधिकरणक्षणसम्बन्धरूपो भवः- उत्पादो यस्य सोऽभवः, प्रवाहतोऽनादित्वात् संसारस्य स्वाधिकरणक्षणध्वंसानधिकरणक्षण एव नास्तीति तत्सम्बन्धलक्षणभवोऽपि न विद्यते इति युज्यतेअभवः, भवश्च भवत्यस्मिन्निति भवश्च संसारो भवति, यतो जायन्त एवास्मिन् प्राणिन इति गम्यते ज्ञायते, अन्यथा जिनोक्तप्रकारव्यतिरिक्तप्रकारेण, न न ज्ञायते, एकान्तरूपस्य तत्प्रकारस्य व्यलीकत्वेन तद्रूपेण संसारस्यापि व्यलीकवादित्यर्थः // 3 // जिनोक्तप्रकारेणैवाभ्युदयादिकं समीचीनं, तत्र प्रतिवादिनो मूकीभवनमेव न्याय्यमन्यथाऽलीकतैव तत्रापीत्याशयेनाहजगत्यनुनयन् यथाभ्युदय-विक्रियावन्ति च स्वतन्त्रगुणदोषसाम्यविषमाणि भोज्यान्यपि / क्रियाफलविचित्रता च नियता यथा भोगिनां तथा त्वमिदमुक्तवानिह यथा परे शेरते // 4 // - जगतीति - "जगति यथाऽनुनयन् भोज्यान्यपि अभ्युदय-विक्रियावन्ति स्वन्त्रगुण-दोषसाम्यविषमाणि च. भोगिनां यथा च क्रियाफलविचित्रता नियता तथा स्वमिदमुक्तवान , यथा इह परे शेरते” इत्यन्वयः / हे भगवन् ! जगति संसारे, यथा येन प्रकारेण, अनुनयन् भक्तशिष्य-प्रशिष्यादीन् स्वोपदर्शितमार्गानुसारिणो विदधत्, भोज्यााप स्वकृतकर्मफलात्मकभोज्यान्यपि, अभ्युदय-विक्रियावन्ति अभ्युदयः-स्वर्गादि धन-पुत्र-समृद्धयादि च. विक्रिया-नरकादि दारियादि च' तदन्यतरवन्ति, विहितानुष्ठानेनाभ्युदयवन्ति निषिद्धाचरणेन विक्रियावन्ति, च पुनः, स्वन्त्रगुण-दोषसाम्य-विषमाणि स्वन्त्रौं-ईश्वरप्रेरणानपेक्षी स्वाभाविकाविति यावत् , एतेन