________________ 80 दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / "अज्ञो जन्तुनीशोऽयमात्मनः सुख-दुःखयोः। ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा // 6 // इत्यादेरपाकृतिः, यौ गुण-दोषौ-भोज्यगतौ भोज्यकारणमात्रजनिती गुण-दोषौ, तयोः साम्य-विषमाणि-कानिचिद् भोज्यानि स्वतन्त्रगुण-दोषसाम्यानुगतानि कानि. चित् स्वतन्त्रगुण-दोषवैषम्यानुगतानि, भोगिनां कर्मफलं भोक्तृणां पुरुषाणाम् , यथा च येन प्रकारेण च, क्रियाफलबिचित्रा अस्याः क्रियाया इदं फलम् , एतस्याश्चेदमित्येवं क्रियाफलवैचित्र्यम्, नियता येन पुरुषेण या क्रिया कृता तस्यैव पुंसस्तस्याः क्रियायास्तदेव फलं भवति नान्यस्येत्येवं नियता, तथा तेन प्रकारेण, त्वं केवली त्वम् , इदं भोज्यक्रियाफलवैचित्र्यादिकम्, उक्तवान् कथितवान्, यथा इह अस्मिन् विषये, परे एकान्तवादिनः, शेरते एतत्प्रतिपक्षप्रकारस्य युक्तस्यास्फुरणेनैतत्खण्डनाशकन्वान्मूकीभवनमेवात्र न्याय्यमित्यालोच्य सुप्ता इव भवन्तीत्यर्थः // 4 // हे भगवन् ! भवदुपदिष्टोऽपि स्वभावतो मोक्षसुखावाप्तिफलक उत्कृष्टो मार्गे!ऽयथावदनुसृतो न हितावहः किन्तु विध्यनुष्ठित एवेत्युपदर्शयति अतीत्य नियतव्यथौ स्थितिविनाशमिथ्यापी निसर्गशिवमात्थ मागमुदयाय यं मध्यमम् / . स एव दुरतिष्ठितोऽयमभिधानरूक्षाशया मधाविव महोरगो दशति दुगृहीतोद्धतः॥५॥ अतीत्येति-'नियतव्यथौ स्थितिविनाशमिथ्यायौ अतोत्य यं मध्यम निसर्गशिवं मार्गमुदयाय आत्थ, स एवायमभिधा रूक्षाशयाद् दुरतिष्ठितो मधौ दुर्गृहोतोद्धतो महोरग इव दशति' इत्यन्वयः / 'दुरतिष्ठितो' इत्यस्य स्थाने 'दुरनुष्ठितः' इति पाठो युक्तः प्रतिभाति, हे भगवन् ! नियतव्यथौ नियता-अवश्यम्भाविनी. व्यथा-नरकादिपीडा ययोस्तौ नियतव्यथौ, स्थितिविनाशमिथ्यापथौ स्थितिश्च सर्वेषां पदर्थानामै कान्तिकी स्थितिरेव, विनाशश्चैकान्तेन विनाश एवेति स्थिति-विनाशौ, तयोरभ्युपगमात्मको मिथ्यापथौ-मिथ्यामार्गों स्थितिविनाशपथौ, तौ अतोत्य अतिक्रम्य, एकान्तस्थितिवादैकान्तविनाशवादौ सांख्य