________________ दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / 81 बौद्धसम्भवावपाकृत्येति यावत्, यं मध्यमं सर्व वस्तु प्रतिक्षणमुत्पाद-व्ययध्रौव्यात्मकं, सर्वेषां पदार्थानां पूर्वपर्यायात्मना विनाश उत्तरपर्यायात्मनोत्पादः पूर्वापरपर्यायानुगामिद्रव्यात्मना ध्रौव्यमित्येवंस्वरूपम् , निसर्गशिवं निसर्गेणस्वभावेन, शिव-कल्याणत्मकं, मार्ग मोक्षसुख प्राप्तिपदम्, एतत्स्पष्टाधिगतये-उदयाय आत्मस्वरूपाविर्भावनाय, आत्थ कथितवानसि, स एवायम् अनन्तरोपवर्णितभवदुपदिष्ट एव मार्गः, अभिधानरूक्षाशयात् तुष्यतु दुर्जन इत्यपशब्दाकलिताभिप्रायात, दुरनुष्ठितः किं करोमि ममैकान्ताभ्युपगमोऽनेनाने कान्तवादनिपुणेन सर्वथाऽपाकृत इति दुःखेनान्तर्गतेनानुष्ठितो-लोकयात्रानिहायासेवितो न तूदयायेति, मधौ वसन्तसमये, दुर्ग्रहीतोद्धतः दुःखेन-अतिपरिश्रमेण, गृहीतश्चासावुद्धतश्च आविर्भावितफणाडम्बरश्च दुगृहीतोद्धतः, महोरगः महान् सर्पः, इव दशति स यथा दुगृहीतारं दशति तद्दष्टश्च पुरुषो-म्रियते तथा दुरभिधानाभिप्रायेणानुष्टितो जिनोपदिष्टमध्यममार्गोऽपि दशतीव, दुरभिमानाभिप्रायेण तदनुष्टानादनुष्टाताऽकल्याणभाजनं भवतीत्यर्थः / 'दुर्गृहीतो यतः' इति पाठे तु यतः यस्मात् कारणात्, दुर्गृहीतः मन्त्रसंदशनादिविधिमन्तरेण यथाकथञ्चिद् गृहीतः, शेषं पूर्ववत् // 5 // अनेकविधबाह्यवञ्चनप्रकारकुशलेभ्यः परेभ्यो जिनस्य वैशिष्टयमुपदर्शयति-- जगद्धितमनोरथाः स्वयमनावृतप्रीतयः कृतार्थनिवृत्तादराश्च विवृतोग्रदुःखे जने / गुणज्ञ ! परिमृग्यमाणलघवः स्वनीतेः परे त्वमेव तु यथार्थवादशुचिरर्थविद्भिवतः // 6 // जगद्धितमनोरथा इति-"जगद्धितमनोरथाः स्वयमनावृतप्रीतयः विवृतोप्रदुःखे जने कृतार्थनिवृत्तादराश्च स्वनीतेः परिमृग्यमाणलघवः परे, हे गुणज्ञ ! त्वमेव तु यथार्थवादशुचिः अर्थविद्भिवतः' इत्यन्वयः / जगद्धितमनोरथाः जगतः जन्तुमात्रस्य, हितं-कल्याणं जगद्धितं जगद्धितस्य मनोरथः- कामना येषां ते जगद्धितमनोरथाः, जन्तुमात्रस्य कल्याणं भवत्वेवं कामयमाना इत्यर्थः, स्वयमनावृतप्रीतयः स्वयं-स्वात्मनि, अनावृता-आवरणरहिता, प्रोतिः-स्त्रीपुत्रधना- ' दिविषयकः स्नेहो येषां ते स्वयमनावृतप्रीतयः, स्वात्मनि निरावृतस्त्रीपुत्र-धनादि