________________ दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / विषयकप्रीतिमन्तः, अथवा मयि सर्वेऽपि स्त्री-पुत्र-भ्रातृ-मातुलादयः प्रकटितप्रीतिभाज इति निरावृतस्त्रीपुत्रभ्रात्रादिगतप्रीतिविषया इत्यर्थः, विवृतोग्रदुःखे स्वयं विवृतं-उपवणितमात्मगतम् , उग्रदुःख दुस्सहदुःखं येन स विवृतोग्रदुःखः, तस्मिन्विवृतोग्रदुःखे, जने लोके कृतार्थनिवृत्तादराश्च कृतस्य-कर्मणः, योऽर्थः-सुखं दुःखं वा स कृतार्थः, तत्र निवृत्तः-नितरां वृत्तः स्वीकृतः, आदरः-बहुमानो यैस्ते कृतार्थ निवृत्तादराः / "अवश्यंभाविभावानां प्रतीकारो भवेद् यदि / तदा दुःखैन लिप्येरन् नल-राम-युधिष्ठिराः // 7 // " "अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् / " इत्यादिवचनोपबृहितमेव कृतकर्मक्षयो भविष्यति तवालमुत्तप्ततयेत्येवं कृतार्थनिवृत्तादराश्च; स्वनीतेः स्वानुकूलनीतिवचनतः, परिमृग्यमाणलघवः परितो मृग्यमाणः अन्विष्यमाणः, लघुः-तुच्छप्रकृतिस्ते परिमृग्यमाणलघवः, स्वयं तुच्छ. प्रकृतिकत्वात् तथाविधमेव सततं गवेषयन्तः, परे अन्यवादिनः, तथा चोक्तविशेषणैः परेषां मायावित्वमेव प्रकटितं भवति, हे गुणन ! सर्वविदो भगवतो गुणज्ञत्वमिव दोषज्ञत्वमप्यस्त्येव, तथापि परोपदर्शितपदार्थवादे पराचरणे च दोषं जानन्नपि जिनो न दोषं वक्ति किन्तु सर्वेषामेव मुक्त्यभिलाषुकाणां यथार्थः तत्त्वज्ञानाय तत्साधनमागममेव प्रमाणवरेण्यमुपदिशति, आगमस्य प्रामाण्यं च गुणवद्वक्तृकन्वत एव, वक्तरि आगमप्रामाण्ययोगि गुणज्ञानमावश्यकमिति गुणज्ञेति संबोधनम्, त्वमेव जिनेन्द्र एव, तुर्विशिष्टि-यथार्थवादशुचिः यथार्थस्य -अनेकान्ततत्त्वस्य, वादः-वचन-यथार्थवादः, तेन शुचिः पवित्रं-यथार्थवादशुचिः, अर्थििद्भः अर्थ पदार्थतत्त्वं, विदन्ति-जानन्तीति अर्थविदस्तैः अथवा अर्थं परमपुरुषार्थ मोक्षं विदन्तीति अर्थविदस्तैः, वृतः अर्थतत्त्वोपर्श. कत्वेनाश्रित इत्यर्थः / 6 // परेभ्यः स्व-परपरायणेभ्यः स्वयं सर्वतो निवृत्तो निजाश्रितानन्यानपि प्रवृत्ति विरहितान् कुर्वन् जिनो विशिष्टत्वादाश्रयणीय इत्युपदर्शयति प्रवृत्त्यपनयक्षतं जगदशान्तजन्मव्यथं विरामलघुलक्षणस्त्वमकरोस्तदन्तःक्षणम