________________ दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / जनानुमुखचाटवस्तरुणसत्कृतप्रातिभाः प्रवृत्तिपरमार्थमेव परमार्थमाहुः परे // 7 // प्रवृत्त्यपनयक्षतमिति--"प्रवृत्त्यपनयक्षतमशान्तजन्मव्यथं जगद् विरामलघुलक्षणस्त्वं तद् अन्तःक्षणमकरोः जनानुमुखचाटवस्तरुणसत्कृतप्रातिभाः परे प्रवृत्तिपरमार्थमेव परमार्थमाहुः" इत्यन्वयः। प्रवृत्त्यपनयक्षतं प्रवृत्त्या-सांसारिकविविधविषयोपभोगानुगुणप्रवृत्त्या, अपनयः कुमार्गगमनादिलक्षणः-प्रवृत्त्यपनयः, तेन क्षतम्, अत एव अशान्तजन्मव्यर्थ न शान्ता-न निवृत्ता-अशान्ता, जन्मव्यथाभूयोजन्मग्रहणपीडा यस्य तदशान्तजन्मव्यथं, जगत् जन्तुजातं, अस्तीति शेषः, हे वीर ! विरामलघुलक्षणः विरामः-सर्वकर्मतो विरमणमेव, लघु विशेषणान्तरराहित्याल्लघुभूतं, लक्षणम्-अन्यतो व्यावर्तकं चिह्न यस्य स विरामलघुलक्षणः त्वं जिनः, तत् निरुक्तस्वरूपमपि जगत्, अन्तःक्षणम् अन्तः-मध्ये, निवृत्तिप्रधानधर्मशासनप्रवर्तनकाले इत्यर्थः, क्षण:-परमानन्दपदप्राप्तिलक्षण उत्सवो यत्र तादृशम् ; अकरो. कृतवान्, जनानुमुखचाटवः जनानां लोकानाम्, अनुमुखंसम्मुखं-जनानुमुखं, जनानुमुखं चाटु मनोहरवचनं येषां ते जनानु मुखचाटवः स्वसमीपवर्तिजनहृदयङ्गमवचनवक्तारः, तरुणसत्कृतप्रातिभाः तरुणैः युवजनः सत्कृताः वहुमानपुरस्कृताः-तरुणसत्कृताः, प्रातिभाः-नवनवोन्मेषशालिनी बुद्धिः प्रतिभा, तयोत्प्रोक्षिताः पदार्थाः प्रातिभाः, तरुणसत्कृताः प्रातिभा येषां ते तरुणसत्कृतप्रातिभाः, युवजनानुमोदितप्रतिभाशालिनः एतादृशाः सन्तः, परे जिनव्यतिरिक्ता :-एकान्तवादिनः, प्रवृत्तिपरमार्थ प्रवृत्तिरेव परमः-उत्कृष्टः, अर्थ:-प्रयोजनं यत्र स प्रवृत्तिपरमार्थस्तं, परमार्थ तात्त्विकार्थम्, आहुः कथयन्ति, ते च प्रवृत्तिप्रधाना अन्यानपि कर्मणि प्रवर्तयन्त्येव येन तदुपदेशस्थितानां जनानां चिरकालं भवभ्रमण. मेव भवति दूरे तेषां निर्वाणमित्याशयः // 7 // नियति-स्वभाव-काल-पौरुष-कर्मणां पञ्चानां कार्यमात्रे कारणानां परस्परसहकारिणामपि सतां क्वचित् कार्ये कस्यचित् प्राधान्यमाश्रित्य कारणत्वविविक्षया सकलनयमये जिनसमये नियतिवादादयः पञ्च वादास्तुल्यकक्षा विराजन्ते, एवमपि तथाविधसमयप्रणेतुर्भगवतो जिनस्य प्रतिपक्षवादोपदर्शितेन स्वान्यवादगतदोषेण न मालिन्यमित्यश्वयंमस्माकमित्युपदर्शयति