________________ 84 दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / कचिनियतिपक्षपातगुरु गम्यते ते वचः स्वभावनियताः प्रजाः समयतन्त्रवृत्ताः कचिन् / स्वयंकृतभुजः क्वचित् परकृतोपभोगाः पुन. नवा विशदवाद ! दोषमलिनोऽस्यहो विस्मयः॥ 8 // क्वचिदिति / 'विशदवाद ! ते वचः क्वचित् नियतिपक्षपारगुन गम्यते, क्वचित् स्वभावनियताः प्रजाः, कचित् समयतन्त्रवृत्ताः, क्वचित् स्वयंकृतभुजः, क्वचित् पुनः परकृतोपभोगाः, अहो विस्मयः, न वा दोषमलिनोऽस' इत्य वयः / विशदवाद ! विशदः- एका तवादापर होपमालिन्यरहितत्वेन निर्मल: वादःस्याद्वादसिद्धान्तो यस्य तत्सम्बोधने तथा, एवंविध हे जिन ! ते तव, वचः वचनं समयमहोदधिः, क्वचित् स्वस्यैव प्रदेशे विषये वा, एवमग्रेऽपि, नियतिपक्षपातगुरु नियतिबलादेव प्रतिनियतसमय-प्रतिनियतदेश-प्रतिनियर स्वभावाद्याकलितं वस्तूत्पद्यत इत्येवं कार्यमात्रे नियतिरेव कारणमित्यस्मिन् यः पक्षपातःआग्रहः, तेन गुरु गौरवशालि-नियतिपक्षपातगुरु, गम्यते ज्ञायते, स्वभावनियताः प्रजाः क्वचिदित्यस्यावापि सम्बन्धः, ते वचो गम्यत इत्यस्यापि सम्बनम:, एवमग्रेऽपि क्वचित् स्वभानियताः स्वभावेन नियताः-स्वभावेनैव वे पदार्था भवन्तीति, प्रकर्षेण जायन्त इति, प्रजाः कार्यमात्रम्, इति ते वाचो गम्त इत्यर्थः, क्वचिदित्यस्य पूर्ववद् व्याख्यानम् ; समयतन्त्रवृत्ताः समयस्य-का स्य, तन्त्रेण अधीनत्वेन, वृत्ताः-सम्पन्नाः, प्रजा इति सम्बन्धः, सर्वे पदार्थाः काल देव जायन्ते इत्यर्थः, क्वचित् स्वयंकृतभुजः स्वयंकृतेन-स्वक्रियया स्वप्रयत्नेन स्वपुर षकारेणैवेति यावत् , भुञ्जन्ते- ये फलमनुभवन्तीति स्वयंकृतभुजः, पुरुषकारेणैव सर्व कार्यजातमुद्भवतीति, ते वचो गम्यत इत्यर्थः; क्वचित् पुनः परकृतोपभोगाः परस्मिन् जन्मनि कृतं कर्म-परकृतं, तस्योपभोग:-तज्जन्यसुखदुःखानुभवो येषां ते परकृतोपभोगाः, न नियत्या, न स्वभावेन, न कालेन, नवा पुरुषकारेण फलनिष्पत्तिः किन्तु पूर्वजन्मकृतशुभाशुभकर्मलक्षणादृष्टादेव सर्व भवतीति ते वचो गम्यत इत्यर्थः, एवं परस्परविभिन्ननयाश्रितपञ्चवादभावेऽपि, न वा नैव, दोषमलिनोऽसि