________________ दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / 85 दोषः-अन्योऽन्यं वादेनोद्भावितो यो दोषः, तेन मलिनः-जिनप्ररूपितेषु नियत्यादिवादेषु परस्परोद्भाविता इमे दोषा इत्येवमेकान्तवाद्यामेडितापवाट जनितमालिन्यवान् नैव भवसि, विभिन्ननयाकलितापेक्षाभेदेन पञ्चानामपि वादानां निर्दुष्टत्वात, इति अहो विस्मयः आश्चर्यमस्माकं मन्दमतीनामित्यर्थः / नियत्यादिवादाश्च शास्त्रवार्तासमुच्चये सम्यक् प्ररूपिता विशेषजिज्ञासुभिस्तत एवावधार्याः // 8 // निमीलितलोचनस्य जगत उन्मीलितलोचनत्वं त्वयैव सम्पादितमित्याहपरस्परविलक्षणाश्च न च नाम रूपादयः क्रियापि च न तानतीत्य न च ते क्रियैकान्ततः। निरोधगतयस्त एव न च विक्रिया निश्चया निमीलितविलोचनं जगदिदं त्वयोन्मीलितम् // 9 // परस्परविलक्षणाश्चेति / 'नामरूपादयः परस्परविलक्षणाश्च न, तानतीत्य क्रियाऽपि न च, ते क्रियैकान्ततो न च, त एव न च निरोधगतयः, विक्रिया निश्चया न च निरोधतयः, निमीलितविलो चनमिदं जगत् त्वयोन्मीलितम्" इत्यन्वयः / नामरूपादयः नामाऽऽकृति-द्रव्य-भावाः, परस्परविलक्षणा: अन्योऽन्यं सर्वथा वैलक्षण्यभाजः, न च-नैव, नाम्रोऽपि घटादिस्वरूपस्य घकारोत्तराकारोत्तरटकारोत्तराऽत्वरूपानुपूर्वीलक्षणाकृतिमत्त्वात्, उत्तरघकाराद्यक्षरपर्यायापेक्षया द्रव्यरूपत्वात्, वर्तमानघटस्वरूपभावरूपत्वात् ; कम्युग्रीवादिसंस्थानलक्षणाकृतेरपीयमाकृतिरिति नामकरणेन नामत्वात् उत्तरपर्यायकारणत्वेन द्रव्यरूपत्वात्, वर्तमानाकृतिस्वरूपत्वेन भावत्वात् ; घटादिकारणमृद्रव्यस्यापि मृदिति नामकरणेन नामत्वात्, पिण्डरूपेण मृदोऽवस्थानलक्षणाकृतित्वात् , वर्तमानमृत्स्वरूपतया भावत्वात् ; घटादिलक्षणभावस्यैव घटोऽयमिति नाम क्रियत इति नामत्वात्, पृथुबुध्नोदराकृतिमत्त्वात, उत्तरपर्यायकारणत्वेन द्रव्यत्वात् ; कञ्चिदविष्वग्भावलक्षणसम्बन्धस्य सम्बन्धमात्रव्यापकत्वेन नामाकृत्यादीनां यत्किञ्चित्सम्बन्धसद्भावे तादात्म्यस्यावश्यम्भावादिति नामरूपादीनां सर्वथा वैलक्षण्यं नास्तोत्यर्थः / तान् नामरूपादीन्, अतीत्य अतिक्रम्य, नामरूपादिकं विहायेत्यर्थः, क्रियापि आगमविहितानुष्ठानादिकमपि, न च नैव, भगवन्नामरूपादिकं परित्यज्य तदर्चनस्तुति