________________ 86 दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / वन्दनादिक्रियाऽपि नोपपद्यत इत्यर्थः / ते सक्रिया नामरूपादयः, क्रियैकान्ततः क्रियामात्रतः, न च नैव, ये केचिन्नामरूपक्रियादयस्ते क्रियामात्रतो नैव, किन्तु ज्ञानादिसहकृतक्रियात एव, उपादानप्रत्यक्षेष्टसाधनताज्ञानकृतिसाध्यताज्ञानजन्य. चिकीर्षाजन्यप्रवृत्तित एव घटायुपत्तेः परेणाप्युपगमात्, सम्यग्ज्ञानदर्शनसहकृतचारित्रादेव मोक्षोद्भवस्य सिद्धान्तसिद्धत्वात, सम्यग्ज्ञानादेरपि कारणान्तरसव्यपेक्षतपःस्वाध्यायादेरेवोत्पत्तः, न तु क्रियामात्रत इत्यर्थः / त एव केवलनामरूपादयः क्रिया चैव, न च नैव, निरोधगतयः कर्मपुद्गलादाननिरोधस्य गतयः-साधनानि, किन्तु ज्ञानसहकृता एव, निश्चयाः निश्चयात्मकज्ञानान्यपि, विक्रियाः क्रियाविकलाः, निरोधगतयः न च नैव / __"न कर्मणामनारम्भान्नैष्कम्य पुरुषोऽश्नुते / न च सन्यसनादेव सिद्धिं समधिगच्छति // 8 // " इति गीतावचनं चात्र संवादकम् / इत्थमुपदेशेनं निमीलितविलोचनं निमीलितं-पक्ष्मपुटकाच्छादितं, विलोचनं-नेत्रं यस्य तन्निमीलितविलोचनम्, अज्ञानात्मकपक्ष्मपुटकाच्छादितज्ञानात्मकलोचनकमिति यावत् , इदं परिदृश्यमानं, जगत् प्राणिकदम्बकं, हे भगवन् ! त्वया, उन्मोलितं उद्घाटितपक्ष्मपुटकनेत्रं कृतमित्यर्थः // 9 // अपरमप्युपदेशस्वरूपं भगवतो वचनमालस्यपराङ्मुखैविज्ञैर्मनसि सुव्यवस्थापितमित्याहन कश्चिदपि जायते न च परत्वमापद्यते / प्रतिक्षणनिरोधजन्मनियताश्च सर्वाः प्रजाः। य एव च समुद्भवः स विलयः प्रतिस्वं च तौ तवापरमिदं मनःस्वलसैनिखातं वचः // 10 // न कश्चिदपि जायत इति / “कश्चिदपि न जायते, परत्वमापद्यते न च, सर्वाः प्रजाः प्रतिक्षणनिरोधजन्मनियताश्च, य एव च समुद्भवः स विलयः, तौ