________________ दिवाकरकृता किरणावलिकलिता तृतीया द्वात्रिंशिका / 80 च प्रतिस्वं, तव इदमपरं वचः, अनलसैमनस्सु निखातम्" इत्यन्वयः / कश्चिदपि कोऽपि पदार्थः, न जायते सर्वथा स्वाधिकरणक्षणध्वंसानधिकरणक्षणसम्बन्धात्मकोत्पादवान्न भवति, पूर्व सर्वथाऽसत उत्पादोपगमे शशशृङ्गादेरप्युत्पादः प्रसज्येतेत्यत: पूर्व कथञ्चित् सत एवोत्पादोऽभ्युपेयः, एवं च तस्य सर्वेऽपि क्षणाः स्वाधिकरणस्वपूर्ववर्तिक्षणध्वंसाधिकरणा एवेति स्वाधिकरणक्षणध्वंसानधिकरणक्षणाप्रसिद्धया तत्सम्बन्धरूपोत्पादस्याप्यप्रसिद्धः, एतेनासत्कार्यवादः प्रतिक्षिप्तः / सर्वथापरिणामवादं पूर्वस्वभावं सर्वथा परित्यज्योत्तरस्वभावरूपेण परिणमत इत्येवंस्वरूपं प्रतिक्षिपति-परत्वं पूर्वस्वभावात्यन्तभिन्नस्वभावत्वम् आपद्यते आप्नोति, न च नैव, पूर्वस्वभावविनाशे स्वभावस्वभाववतोरभेदात् स्वभाववतोऽपि विनाशेनासतस्तस्य परस्वभावावाप्त्यसम्भवात् ; तहि पदार्थाः कीदृशाः ? सर्वाः प्रजा: सर्वाणि वस्तूनि, प्रतिक्षणनिरोधजन्मनियताश्च प्रतिक्षणं निरोधः-विनाशः, जन्म-उत्पादश्वेति-प्रतिक्षणनिरोधजन्मनी, प्रतिक्षण-निरोध-जन्मभ्यां नियताःव्याप्ताः-प्रतिक्षणनिरोधजन्मनियताः, प्रतिक्षणं केनचिद्रूपेण नश्यन्ति केनचिद्रूपेणोत्पद्यन्ते, निरन्वयोत्पादविनाशयोरसम्भवात् , केनचिद्रूपेण तिष्ठन्ति चेत्यर्थः, एतेन सदसत्कार्यवादः केनचिद्रूपेणावस्थित एव पूर्वरूपं परित्यज्य रूपान्तरेण परिणमत इत्येवं कथञ्चित्परिणामवादश्च जैनानामभ्युपगमपथं नीत इति / उत्पत्ति-विनाशयोः कथञ्चिदमेदोऽपीत्याह-य एव च य एव पुनः, समुद्भवः उत्पादः, स उत्पादः, विलयः विनाशः, तौ च उत्पाद विनाशौ च, प्रतिस्वं प्रतिव्यक्ति, हे जिन !, तव इदं अनन्तरोपवर्णितम्, अपरं पूर्वोक्तवचनभिन्न वचः वचनम् , अनलसैः आलस्यरहितैः, यथासमयं स्वाध्यायव्यसमपरायणैः, मनस्सु अन्तःकरणेषु, निखातं तथाऽवस्थापितं यथा बहिर्न गच्छति, भूमी निखातं रत्नादिकं यथा तत्रैवावतिष्ठते, कार्यकाले चावाप्यते तथेदमपीत्यर्थः // 10 // ... कार्यकारणभावेन भवहेतु-भोक्त्रादीनां विभिन्नतया सत्त्वमनासादयतां गुम्फनमन्याकर्तृक जिनेनैव कृतम्, अन्योपदिष्टभवहेत्वादिस्वरूपस्याव्यवस्थितत्वाजिनोपदिष्टभवहेत्वादिस्वरूपस्यव स्याद्वादमर्यादया व्यवस्थितत्वादित्याह