________________ 88 दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / पृथङ् न भवहेतुरस्ति न च भोक्तुरन्यो भवो प्रसूतिरपि जायमानमतितोऽस्ति नान्या न च / स्थितिर्गमनमुन्नतिर्व्यसनमिष्टयो बुद्धय स्तथेत्यनवबद्धपूर्वमपरैः प्रबद्धं त्वया // 11 // पृथइन भवहेतुरस्तीति / “भवहेतुः पृथङ् नास्ति, भोक्तुरन्यो भवो न च, प्रसूतिरपि जायमानमतितोऽन्या नास्ति, ['जायमानमतिना' इत्यस्य स्थाने जायमानमतितो, इति पाठो युक्तः ] स्थितिर्गमनमुन्नतिर्व्यसनमिष्टयो बुद्धयस्तथा, न च, अपरेरित्यनवबद्धपूर्वं त्वया प्रबद्धम्" इत्यन्वयः / भवहेतुः भवस्यसंसारस्य हेतुः, पृथग् एकान्तेन भवाद् भिन्नो नास्ति न विद्यते, प्रवाहतो भवस्यानादित्वेन तदन्तःपातिनो भवस्य कारणतया यदभिमतं तस्यापि भवत्वेन भवभिन्नतयाऽस्तित्वाभावात् , पदार्थसमूहात्मकस्य भवस्य समूहसन्निविष्टैकैकस्य समूहिनो भवत्वाभावे तत्समूहस्यापि भवत्वासंभवात् , प्रत्येकावृत्तिधर्मस्य समुदायावृत्तित्वात, भोक्तः सुख दुःखाधुपभोगकर्तुरात्मनः, अन्यो भिन्नः, भवः संसारः, न च न विद्यते, भोक्तृ-भोग्य-तदुपादानादिसमष्टिरेव संसारः, समुदा. यस्य च समुदायात्मन एव भावो न तु तद्भिन्नस्येति, भवति-उत्पद्यत इति व्युत्पत्त्या भवस्योत्पत्तिरूपत्वेऽपि तद्बुद्धिरेव तत्सत्तेति ततो व्यतिरिक्तत्वं तस्य नास्तीत्याह-प्रसूतिरपि उत्पत्तिरपि, जायमानमतितः जायमानस्य-उत्पद्यमानस्य, मतितः-ज्ञानात् अन्या भिन्ना, नास्ति न विद्यते स्थितिः अवस्थानम् , गमनं उत्तरदेशसंयोगानुकूला क्रिया, उन्नतिः उत्कर्षः, व्यसनं गताद्यासेवनं संकटं वा, इष्टयः यागादयः, बुद्धयः प्रत्यक्षादिज्ञानानि, तथा न च तबुद्धितो भिन्ना नैव, अपरैः अन्यवादिभिः, इति एवं प्रकारेण, अनवबद्धपूर्व पूर्व-पूर्वकाले, अनवबद्ध-न अवबद्धं-भवहेतुभोक्त्रादिरूपेण, न संघट्टितम्, अनवबुद्धमिति पाठे तु पूर्वमज्ञातमित्यर्थः, हे जिन ! त्वया प्रबद्धं प्रकर्षण सङ्कलितम्, स्याद्वादावलम्बनेन कथञ्चिद् भवाद् भवहेतुः पृथग् , भवोऽपि भोक्तुः कञ्चिदन्य इत्येवं दिशा सङ्घटितमिति यावदित्यर्थः, प्रबुद्धमिति पाठे तु प्रकर्षेण ज्ञातमित्यर्थः // 11 //