________________ दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / / त्वं परमार्थतत्त्वस्पृहयालूनां परमः सुन्दरः त्वदुपदिष्टप्रकारेणैवात्मनः परमात्मतेत्याह-- स्वभावनियतस्त्वया जिन ! न कश्चिदात्मोदित स्त्वमेव च परं ललाम परमार्थतत्त्वार्थिनाम् / असम्भवमनाशमेकममितक्षयस्थानिनं यथैनमवदस्तथैव परमात्मताऽस्यात्मनः // 12 // स्वभावनियत इति / “हे जिन ! कश्चिदात्मा स्वभावनियतस्त्वया नोदितः, च-पुनः परमार्थतत्त्वार्थिनां त्वमेव परं ललाम, असम्भवम् अनाशम् एकम् अमितक्षयस्थानिनम् एनं यथाऽवदः तथैवाऽस्याऽऽत्मनः परमात्मता" इत्यन्वयः। कश्चिदात्मा कोऽप्यात्मा, स्वभावनियतः अयमात्मा किञ्चिज्ज्ञस्वभावः, अयमात्मा सर्वज्ञस्वभावः, अयमात्मा परमात्मस्वभाव इत्येवं विभिन्नस्वभावे नियतः-अवस्थितः त्वया जिनेन, न नैव, उदितः कथितः, च पुनः, परमार्थतत्त्वाथिनां परमेश्चासावर्थश्च परमार्थः, परमार्थ एव तत्त्वं-परमार्थतत्त्वं, परमार्थतत्त्वमर्थयन्त इति परमार्थतत्त्वार्थिनस्तेषां परमार्थतत्त्वार्थिनां, परमार्थतत्त्वेच्छूनामित्यर्थः, त्वमेव जिन एव, परं उत्कृष्ट, ललाम भूषणम् , अतिसुन्दर इत्यर्थः; असंभवं न विद्यते संभवः-उत्पादो यस्य सोऽसंभवस्तम् , उत्पादरहितम्, एकम् अद्वितीयम् अमितक्षयस्थानिनं अमितं-एतावदिदमिति मातुमशक्यं, क्षय-गृहम्, अमितक्षयमेव स्थानम्अमितक्षयस्थानं, तदस्यास्तोति अमितक्षयस्थानी, तं अमितक्षयस्थानिनम् ; एन आत्मानं, यथा येनोक्तप्रकारेण, अवदः हे जिन ! त्वं गदितवान् , तथैव तेनैव प्रकारेण, अस्य स्वसंविदितप्रत्यक्षसिद्धस्य, आत्मनः जीवस्य, परमात्मता परमात्मस्वरूपता, जीव एवासम्भवत्वादिधर्मवत्त्वात् परमात्मा, न तु अन्यैरात्मानं जीवेश्वर भेदेन द्विधा विभज्य तत्रेश्वरस्य परमात्मत्वं प्रतिपादित युक्तमित्यर्थः // 12 // हे जिन! तव वचनं सूक्ष्मबुद्धिविभवैकगम्यं, न साधारणजनवेद्यमित्यु. पदर्शयति