________________ 90 दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / पृथङ्न चयनादयो न च परस्परैकात्मका न बुद्धिरपि तानतीत्य न च तद्गता बुद्धयः / अतीत्य न च चेतनाऽस्ति सुखदुःखमोहोदया न युक्तमिव नाम ते जिन ! विगाहधीरं वचः // 13 // पृथइन चयनादय इति / 'चयनादयो न पृथङ, परस्परे कात्मका न च, तानतीत्य बुद्धिरपि न, तद्गता बुद्धयो न च, सुख-दुःख-मोहोदयानतीत्य चेतना न चास्ति, हे जिन ! ते विगाहधीरं वचोऽयुक्तमिव नाम' इत्यन्वयः / चयना. दयः चयनं-पुञ्ज आदिर्येषामवयव्यादीनां ते चयनादयः परमाणुपुञ्जावयविप्रभृतयः, पृथग प्रत्येक परमाण्ववयवादिभ्य एकान्तेन भिन्नः, न नैव, परस्परैः कात्मकाः अन्योऽन्यमेकात्मकाः-एकान्तेनैकस्वरूपाः, न च नैव, तान् चयनादीन्, अतीत्य अतिक्रम्य, बुद्धिरपि ज्ञानमपि, न न सम्भवति, भिन्नाभिन्नस्वरूपाणां चयनावयव्यादीनामभावे घट-पटादिज्ञानमपि निरालम्बनं कथं स्यात् , बुद्धयः ज्ञानानि, तद्गताः चयनावयव्यादिगताः, न च नैव, यदि चयनावयव्यादिगता बुद्धयः स्थुस्तहि तेऽपि चेतना एव प्रसज्येरन्निति जडाजडविभाग एवोच्छिद्येत, सुखदुःखमोहोदयानतीत्य सुखं दुःखं मोहं-ममतां चातिक्रम्य, चेतना चैतन्यं, न चास्ति न विद्यते, तथा च मुक्तावस्थायां वैषयिकसुख - दुःखादीनामभावे कुतश्चैतन्यं, चैतन्याभावे च मुक्तस्य घटपटादिभ्योऽवलक्षण्यप्रसङ्गः, हे जिन ! ते तव, विगाहधीरं विशेषेण गाहनेन-गूढाशयान्वेषणेन, धीर-निर्णयास्पदं, वचः वचनम्, अयुक्तमिव नयविवक्षाभेदेन युक्तं प्रमाणापन्नमेवापाततोऽयुक्तसदृशं गम्भीराशयानभिज्ञानामवभासते, नयविचाराभिज्ञानां तु भवद्वचनगूढरहस्य युक्तमेवावभाति नामेति कोमलामन्त्रण इत्यर्थः / / 13 / / सर्व वस्तु विरुद्धस्वभावं वदन निषेधयंश्च भवानेव विद्वद्भिराद्रियते भवद. भिमते स्याद्वादे सर्वस्योपपन्नत्वादित्याह क्षमेव पुरुषं रुषश्च न विजातिरभ्युन्नति न मानमतिमार्दवं न निकृतिर्न नामार्जवम् /