________________ दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका। 91 ऋतं वितथमेव गुप्तिरथ वा तपः किल्विषं विमुक्तिमपि बन्धमात्थ न च तत् तथा नान्यथा // 14 // क्षमवेति / 'पुरुषं रुषन् क्षमैव [ इति ], च [ पुनः ] अभ्युन्नतिः विजातिर्न [इति ], अतिमार्दवं मान न न [इति ], आर्जवं निकृतिः न न [इति ], ऋतं वितथमेव [ इति ], गुप्तिः अथवा तपः किल्बिषम् [इति ], विमुक्तिमपि बन्धं [च ], आत्थ, [ यत् ] न अन्यथा तत् न तथा" इत्यन्वयः / पुरुष रुषन् जीवं प्रति क्रोधं कुर्वन् क्षमैव क्षमागुण एव, शुभाशयेन शिष्यादी क्रियमाणः कोपः फलतः क्षमागुण एव, क्षमावानिति पाठस्य योग्यत्वेऽपि पर्यायार्थिकनयप्राधान्यविवक्षया क्षमैव इति निर्देशः, इति त्वमात्थ. एवं हे भगवन् ! भवान् कथयति, वाक्यार्थगतकर्मत्वप्रतिपादनाय इतिशब्दोऽध्याहार्यः, अत एव____ जानामि सीता जनकप्रसूता, जनामि रामो मधुसूदनश्च / जानामि मृत्युर्मम तस्य हस्ते, तथापि सीतां न परित्यजामि // 9 // " इत्यादौ कर्मत्ववाचकद्वितीयाविभक्तिमन्तरेणेव वाक्यार्थस्य कर्मत्वमुररीकृतम् , अध्याहृतेन इतिशब्देनाभिहितं च, एवमग्रेऽपि विज्ञेयम् / 'पुरुषं रुषश्च" इति स्थाने 'परुषं रुषञ्च" इति पाठो ज्ञेयः, परुषं कठोरं यथा स्यात् तथा, रुषं रुषशब्दस्य द्वितीयेकवचनं, कोपनियामिति तदर्थः, तथा च कठोरं यथा स्यात् तथा क्रियमाणं कोपम् , क्षमैव शुभाशयेन क्रियमाणतया क्षमागुण एव इति भवान् कथयतीति फलितार्थः, क्षमाशब्द चाव्ययेऽपि पठितोऽस्ति, तस्येह ग्रहणे द्वितीयायामपि 'क्षमा' इति स्वरूपान्न इतिशब्दाध्याहारापेक्षा, क्षमामेवात्थ इति तदर्थः, अस्मिन् पक्षे न पर्यायनयप्राधान्याश्रयणापेक्षा, न वा शतृप्रत्ययोत्पादनविडम्बना, तथाहि-"रुष हिंसायाम्” “रुषच रोषे” “रुषण रोषे'' इति त्रयाणामपि धातूनां शतृप्रत्यये क्रमशो 'रोषन् रुष्यन् रोषयन्' इति रूपाणि भवन्ति, 'रुषन्' इति न कस्यापि एतदर्थ तुदादिपाठकल्पना कर्तव्या भवति, साऽपि नेदानी कर्तव्येत्यर्थः / अभ्युन्नतिः अभितः उत्कर्षः, विजातिः विकृतिः, न नैव, इति स्वमात्थ, अयं भावः-अभ्युन्नतिः किलात्मनः कैवल्यस्वरूपावाप्तिः, सा सहजैव, केवलमावरणापगमादाविर्भूतेति न विकृतिरिति / अतिमादव