SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 92 दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका -~-darmerom अतिरेकशालिनी मृदुता-नम्रता, मानम् अभिमानं, न अर्थात् मानमेव, इति त्वमात्थ, 'सर्वतो नम्रीभूय मया की कार्य साध्यत" इत्याशयादिना यत्र तत्र क्रियमाणा मृदुता स्वाभिमानमेवेति भावः, यद्वा अनुप्रासानुरोधेन "न मानमतिमार्दवम्' इति स्थाने “न नाममतिमार्दवम्" इति पाठादरे तु-अतिमार्दवम् नामं नमनं नम्रीभावं मानाभावमिति यावत्, न न त्वमात्थ इति व्याख्येयम् / एवम्-आर्जवं ऋजुता सरलता, निकृतिः दम्भः, न न नाम अर्थात् दम्भ एव, इति त्वमात्थ, स्वकार्यसाधनाय केवलं बहिर्वृत्त्या दयमाना ऋजुता दम्भ एवेत्यर्थः / ऋतं सत्यम् / वितथमेव असत्यमेव, यदि परपीडाकरं भवेत् तदा तद् असत्यमेवेत्यर्थः, गुप्तिः कायादिचेष्टापरिहारः, अथवा तपः आहारत्यागः, किल्बिषं पापमेव, इति त्वमात्थ, बकस्य मत्स्यग्रहणार्थं कायगुप्तिः पापमेव, एवं शत्रुमारणादिशक्ति पम्पादनकृते क्रियमाणं तपः पापमेवेत्यर्थः, क्वचित् “गुप्तिरयतिस्तपः" इति पाठः, तत्र अयतिः यमाभावः गुप्तिर्यमाभाव एव इति त्वमात्थेत्यर्थः, विमुक्तिमपि विशिष्टत्यागमपि, बन्ध बन्धनमेव, त्वमात्थ, अङ्गारमर्दक-विनयरत्नादीनां विशिष्टत्यागमयो प्रव्रज्यापि दुष्टाशयाद् कर्मबन्धनफलैव जातेत्यर्थः, नान्यथा यद् वस्तु साधारणजनेन प्रतीयमानस्वरूपतो विवक्षाभेदेनान्यथा-विपरीतं न भवति, तद् तद् वस्तु, न तथा प्रतीयमानस्वरूपमपि न भवितुमर्हति स्वद्रव्यादितः सत्त्वेन परद्रव्यादितोऽसत्त्वेनाकलितस्यैव वस्तुत्वादिति, भगवन् ! भवदभिहित चारुतरमेवेति भावः // 14 // एकान्तेन कर्तृ-भोग्यादेरभावप्रतिपादनं भवतो निश्चयापेक्षं युज्यत एवेत्याहन कश्चन करोति नापि परिभुज्यते केनचि न्न वेद्यमपि किञ्चिदस्ति न च न क्रियाभूतयः / भवन्न च भवान्तरं व्रजति कश्चिदभ्येति वा गतिं न च विना भवोऽस्त्यभव ! निश्चितं . ते वचः // 15 // न कश्चनेति / -- कश्चन न करोति, नापि केनचित् परिभुज्यते, वेद्यमपि न, न च किञ्चिदस्ति क्रियाभूतयो न, भवन् भवान्तां न व्रजति, वा
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy