________________ दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / 93 Mmmmmmmmmmmmmm किञ्चिन्नाभ्येति, न च गति विना भवोऽस्ति, हे अभव ! ते वचो निश्चितम्" इत्यन्वयः। कश्चन कोऽपि पुरुषः, न नैव, करोति किञ्चिदपि कार्य करोत, तस्मान्नास्ति कर्ता; नापि नैव, केनचित् केनापि पुरुषेण, परिभुज्यते किञ्चिदपि भोगकर्म भवति, तस्मान्नास्ति भोक्ता भोग्याभावाद् भोक्तुरभावः, वेद्यमपि ज्ञेयमपि, न नास्ति, वेद्याभावाद् वेदकस्याप्यभाव इति नास्ति ज्ञाता; न च नैव, किञ्चित् किमपि वस्तु, अस्ति-सत्त्वाश्रयः, तथा चाश्रयाभावात् सत्तापि नास्ति; क्रियाभूतयः पचन-पठनादिलक्षणक्रियोत्पत्त्यादयः, न नैव, तथा च पाचक-पाठकाध्यापकादीनामप्यभावः; भवन् पूर्वकृतकर्मबलाज्जन्म गृह्णन् , भवानन्तरं परभवं, न व्रजति न गच्छति, भवन्नित्यस्य स्थाने भवादिति पाठो युक्तः, प्रेत्यभावो नास्तीत्यर्थः; वा अथवा, कश्चित् कोऽपि, नाभ्येति भवान्तराद् भवान्तरं नागच्छति, मरणानन्तरं जन्म जन्मानन्तरं मरणमित्येवं जन्ममरणानुगमनस्वरूपं संसरणं संसारो नास्तीत्यर्थः; गति मनुज-तिर्यक्-सुर नरकचतुष्टयगति विना, भवः संसारः, न च नैव, अस्ति विद्यते; भवः-संसारो यस्य नास्ति सोऽभवस्तस्य संबोधने-हे अभव ! ते तव, वचः वचनं, निश्चितं निश्चयनयसमुत्थम् , कर्तृ-भोक्त्रादेर्व्यावहारिकत्वात , निश्चयनये सर्वस्य स्वात्मन्येव प्रतिष्ठितत्वान्नान्यस्यान्येन सम्बन्धः, कर्तृत्व-भोक्तृत्वादिधर्माश्च नान्यसम्बन्धमन्तरेण सम्भवन्तीत्याशयः // 15 // यदा परवादिनो निश्चयनयं परपीडनप्रवण तया योजयति तदा हे जिन ! भवता प्रशमहेतुतया स योजित इत्युपदर्शयति - वियोजयति चासुभिनं च वधेन संयुज्यते - शिवं च न परोपमर्दपुरुषस्मृतेर्विद्यते / वधाय नयमभ्युपैति च परान्न निघ्नन्नपि त्वयाऽयमतिदुर्गमः प्रशमहेतुरुयोतितः // 16 // वियोजयतीति / 'असुभिर्वियोजयति च, वधेन संयुज्यते न च, परोपमर्दपुरुषस्मृतेः शिवं न च विद्यते. परान् निन्नन्नपि च वधाय नयं नाभ्यु