________________ दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिशिका / पैति, हे भगवन् ! अतिदुर्गमोऽयं प्रशमहेतुः त्वयोयोतितः” इत्यन्वयः / असुभिः प्राणैः, वियोजयति च प्राणिनं विघटर्यात च, मच वधेन हिसया, संयुज्यते संयुक्तो भवति, यागादौ छागादिकं प्राणिनं यज्ञकर्ता पुरुषः खड्गप्रहारेण घातयति “यज्ञार्थे पशवः सृष्टा यज्ञार्थे पशुघातनम् / / अतस्त्वां घातयिष्यामि यस्माद् यज्ञे वधोऽवधः // 10 // '' इत्यादि वचनं प्रमाणीकुर्वन् वधेन-हिसादोषेण संयुक्तो न भवति, "मा. हिस्यात् सर्वभूतानि" इति श्रुतिवचनेन यज्ञाङ्गहिंसातिरिक्तहिंसाया एव प्रतिषेध इति दर्दुरमीमांसकमते चेदम् , परोपमर्दपुरुषस्मृतेः परस्य-द्वितीयस्य; उपमर्दैन-निषेधेन, या पुरुषस्मृति:-अद्वितीयब्रह्मज्ञानं तस्मात् , स्मरणस्यात्र विशिष्टज्ञानरूपत्वात् , शिवं कल्याणं मोक्षसुखं वा, न विद्यते, अद्वितीयब्रह्मण एव पारमार्थिकत्वात् , बन्धमोक्षादिकं किमपि नास्तीति वेदान्तिनः सङ्गिरन्ते, परान् परप्राणिनः, निघ्नन्नपि मारयन्नपि, वधाय वधार्थ, नय नीतिवचनं, न नैव, अभ्युपैति स्वीकरोति, काशीमरणान्मुक्तिरित्यादिवचनं प्रमाणीकुर्वन् काश्यां यन्त्रविशेषेण प्राणिनं निन्नन् अनेनायममृत एवेत्यध्यवस्यन् न घातको भवतीति हे भगवन् ! अतिदुर्गमः अतिशयेन दुःखेनावबोद्धं शक्यः, अतिगम्भीर इत्यर्थः, अयम् , अनन्तरोपवर्णितो निश्चयनयवादः, / प्रशमहेतुः प्रशमकारणं, त्वया सर्वनयमयप्रमाणमूर्धाभिषिक्तकेवलज्ञानवता भवता, उद्यो. तितः उद्घोषितः / अयं भावः-प्रणयिजनमरणादिजनितशोकादिसंकुलान् लोकान् निजनिधनभयभीतान् वा जनान् 'अयमात्माऽविनाशी, न कदाचन म्रियते, केवलं देहपरावर्तनादिकं भवतीत्यलं शोकादिना' इत्यादिनिश्चयनयवचनेन शोकादीनपाकृत्य परमोपशमभावं नयति जिन इति जिनेन निश्चयनयः प्रशमहेतुतया समुद्घोषितः // 16 // जिनवचनविमुखाः पापभीरव आदृतसन्याः परहितेच्छवोऽप्यकल्याणमेवानुभवन्ति, हे जिन ! तव वचननिरता एव कल्याणमनुभवन्तीत्याहअपुण्यपथभीरवो वचनसत्य ! सत्यादराः . पतन्त्यशिवमेव सत्यवचनार्थमूढा जनाः /