________________ दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका। परप्रियहितैषिणश्च बहुयातनापाणयः * समन्तशिवसौष्ठवं तव न ये वचः संनताः // 17 // अपुण्यपथभीरव इति / “हे वचनसत्य ! ये अपुण्यपथभीरवः सत्यादराः सत्यवचनार्थमूढाः परप्रियहितैषिणश्च बहुयातनापाणयो जनाः, तब समन्तशिवसौष्ठवं वचो न संनताः, अशिवमेव पतन्ति" इति सम्बन्धः / हे वचनसत्य ! वचनं सत्यं यस्य स वचनसत्यः. यद्वा वचने-प्रतिपादने, सत्यःयथार्थः, सत्यवक्तेत्यर्थः, तत्सम्बोधने-वचनसत्य !, ये अनिर्दिष्टनामनः केऽपि, सत्यादराः सत्ये आदरः-बहमानो येषां ते सत्यादराः; सत्यवचनार्थमूढाः सत्यवचनस्यार्थे मूढाः-ज्ञानविकलाः, अस्य सत्यवचनस्यायमर्थः सत्य इत्येवंनिर्णयात्मकज्ञानरहिताः; च पुनः, परप्रियहितैषिणः परस्य यत् प्रियं-मनोऽनुकूलं, हितम्-आयत्यामानन्ददायकं-परप्रियहितं, तदैषिणः-तच्चिन्तकाः, केनोपायेन परस्य प्रियं हितं स्यादित्यनवरतं तदुपायान्वेषणव्यप्राः; बेहुयातनापाणयः बहवो यातनाः-परभयोत्पादकाः खड्गादयः पाणौ येषां ते बहुयातनापाणयः, एवंविधा जनाः लोकाः, तव जिनस्य, समन्तशिवसौष्ठवं अत्यन्तकल्याणैकमनोहरं वचः वचनम्, संनताः सम्यक् प्रणताः, न नैव; वस्तुगत्या अपुण्यपथभोरवो यदि किमिति हिंसादिप्रधानयज्ञादिक्रियामनुतिष्ठन्ति ?, यदि च सत्यादरास्तहि * वचनसत्यस्य जिनस्य सत्ये वचस्येवादरः समुचितस्तेषां, जिनवचनातिरिक्तवचनादराश्च न वस्तुतः सत्यादराः, जिनवचनातिरिक्तवचनार्थाभिज्ञाश्च सत्यवचनार्थमूढा एव, अन्यवचनार्थस्य सत्यवचनार्थत्वाभावात् , यदि च वस्तुगत्या परप्रियहितैषिणः किमिति परक्षोभकर खड्गादिकं पाणी धारयन्ति ?, खड्गादिपाणयश्च न वस्तुतः परप्रियहितैषिणः, कल्याणैकनिकेतनजिनवचनप्रणामविमुखानामकल्याणैकनिकेतननरकादिगतिनिपातो युक्त एवेत्याशयः // 17 // हे जिन ! गदपराहतजनैर्गदवारणाय भवदीयवचनामृतं पीयते इत्याह__ य एव रतिहेतवः समफलास्त एवार्थतो * न च प्रशमहेतुरेव मतिविभ्रमोत्पादकः /