________________ दिवाकर कृता किरणावलीकलिता तृतीया द्वात्रिंशिका / य एव च समुद्भवः स विलयः प्रतिस्वं च तौ तवामृतमिदं वचः प्रतिहतैर्गदः(दैः) पीयते // 18 // य एवेति / “य एव रतिहेतवस्त एव शमफलाः, प्रशमहेतुरेव मतिविभ्रमोत्पादको न च, य एव समुद्भवः स विलयश्च, तौ च प्रतिस्वम् , हे वीर : गदैः प्रतिहतैस्तवेदं वचोऽमृतं पीयते” इत्यन्वयः / य एव ये केचन कामिनीप्रमुखाः पदार्थाः, रतिहेतवः रागजनकाः, त एव निरुक्तकामिनीप्रमुखाः पदार्था एव, अर्थतः फलभूतकार्यतः फलत इत्यर्थः, 'समफला' इति स्थाने 'शमफलाः' इति पाठः सम्यगाभाति, तथा च शमफलाः कालविशेषादिकं व्यक्तिविशेषं वा समाश्रित्य वैराग्यादिना प्रशमरसजनका भवन्ति; नन्वेवं सति रागहेतूनां शमहेनूनां च सांकर्याद् भवदुपवर्णितः प्रशमहेतुरेव मतिभ्रमणाकारको भविष्यतीत्याशङ्कायामाह-न च प्रशमहेतुरित्यादि / प्रशमहेतुरेव प्रशमजनकत्वेनाभिमतो रागादिजनकपदार्थ एव, मतिविनमोत्पादकः यदि राग हेतुरेव शमहेतुस्तदा वस्तुगत्या कः शमहेतुः को रागहेतुरिति निर्णयाभावात् मतिभ्रमणाजनक इति, न च नैवाशङ्कनीयमित्यर्थः; कुत एतदित्याह-य. एव समुद्भवः य एव रागादीनामुत्पादः, स विलयः विशिष्टो लयो विनाशो यस्य स तथा, उत्पत्तिमतोऽवश्यं विनाश इति नियमात् समुत्पन्नस्य रागस्य विनाशे सति वैराग्यात् प्रशमो भविष्यतीत्यर्थः; ननूक्तनियमे किं बीजमि याहप्रतिस्वं प्रतिव्यक्ति, तौ उत्पाद-विनाशौ, भवत इति शेषः, हे वीर ! तव जिनस्य, इदं अनन्तरोक्तम्, वयोऽमृतं अमृतवद् रस्यमानं सद् आनन्दकन्दोल्लासकत्वाद् वचनरूपममृतम्, प्रति प्रतीत्य, हतैः हतभाग्यैः, त्वद्वचनामृतपानजनकभाग्यशून्यैः, गदः विषं पोयते, यद्वा 'गदः' इति स्थाने 'गदैः' इति पाठः, गदैः गदशब्दः-कृष्णानुजे रोगे कथने विषे च वर्तते, आवृत्त्या च रोगमयविषमयैश्च, परवादिवचनैः, प्रतिहतैः संजातज्ञानस्वरूपाघातैः, पीयते ज्ञानस्वरूपावाप्तिलक्षणरोगनिवर्तनकृते हृदयंगतं क्रियत इत्यर्थः // 18 // अहन्त्व-ममत्वाद्यभिमाने विद्यमाने सति यमास्यपतितस्य न प्रशान्त्युदयो न वा भेदकारणराग-द्वेषनिवृत्तिरित्याहममाहमिति चैष यावदभिमानदाहज्वरः कृतान्तमुखमेव तावदिति न प्रशान्त्युन्नयः।