________________ दिवाकर कृता किरणावलोकलिता तृतीया द्वात्रिंशिका / 97 . यशःसुखपिपासितैरयमसावनोंत्तरैः परैरपसदः कुतोऽपि कथमप्यपाकृष्यते ? // 19 // ममेति / “ममेति अहमिति चेषोऽभिमानदाहज्वरो यावत् तावत् कृतान्तमुखमेवेति प्रशान्त्युन्नयो न, यशःसुखपिपासितैरनर्थोत्तरः परेरयमसावपसदः, कुतोऽपि कथमप्यपाकृष्यते ?' इत्यन्वयः / ममेति-मम कलत्रं, मम बान्धवः, मम पुत्रः, मम माता, मम पिता, मम मातामहः, मम मातुल इत्यायाकार इत्यर्थः, अहमिति-अहं ब्राह्मणोऽहं, श्रोत्रियोऽहं, धनिकोऽहं, ग्रामाधिपतिरह राजेत्याकार इत्यर्थः, एषः प्रत्यक्षात्मकः, अभिमानदाहज्वरः अभिमान एव दाहज्वरः-शरीरसंतापकारी ज्वरोऽभिमानदाहज्वरः, यावत् यावत्कालं वर्तते, तावत् तावत्कालं, कृतान्तमुखमेवेति-कृतान्तस्य-मृत्योः, मुखमेव-मुखप्रविष्टत्वमेवेत्येतस्मात् कारणात्, प्रशान्त्युन्नयः प्रकर्षेण शान्तेरुन्नतिः, न नैव; यशासुपिपासितैः यशश्च सुखं च यशः-सुखे तयोः पिपासा-यशो मे स्यात् , सुखं च मे स्यादित्याकारिकेच्छा, तदाश्रयैः, यशः-सुखकामुकैरित्यर्थः, अनर्थोत्तरैः अनर्थमनिष्टमुत्तरकाले येषां तेऽनर्थोत्तरास्तैः, उत्तरकालेऽवश्यमनिष्टप्राप्तिमद्भिः, परैः जैनभिन्नैर्जनै रागद्वेषाक्रान्तैः, अयमसावपसदः देवदत्तोऽयं मम शत्रुरश्यन्तापकारकारी, असौ मम छिद्रान्वेषी इत्यादिस्वरूप आभासः, यद्वा अपसदः अधमः, अयमसौ सोऽयमभिमानज्वरः, कुतोऽपि कस्मादपि देशकालादेः, कथमपि केनापि प्रकारेण, अपाकृष्यते ? दूरीक्रियते ? काक्वा न कुतोऽपि न कथमप्यपाकतुं शक्यत इत्यर्थः / / 19 / / हे जिन ! यथा त्वमुपदिशसि तथैव हितपरीक्षकैरुपेयते प्रकारान्तरस्य हितस्वाभावादित्याहन दुःख-सुखकल्पनामलिनमानसः सिद्धयति न चागमसदादरो न च पदार्थभक्तीश्वरः / ... 'न शून्यघटितस्मृतिन शयनोदरस्थो न वा यथात्थ न ततः परं हितपरीक्षकैर्मन्यते // 20 //