________________ 98 दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / न दुःख-सुखकल्पनेति / "सुख-दुःखकल्पनामलिनमानसो न सिध्यति, आगमसदादरो न च सिद्धयति, पदार्थभक्तीश्वरो न च सिद्धयति, शून्यघटितस्मृतिः न सिद्धयति, शयनोदरस्थो न सिद्धयति, परं यथात्थ ततः हितपरीक्षकैनं मन्यते न वा” इत्यन्वयः / सुख दुःखकल्पनामलिनमानसः सुखं च दुःखं च सुख-दुःखे तयोः कल्पना सुख-दुःखकल्पना, सुख-दुःखकल्पनया मलिनं मानसं यस्य स सुख-दुःख कल्पनामलिनमानसः, यज्ञाद्यनुष्टितौ मम स्वर्गादिसुखं भविष्यति, अभक्ष्यभक्षणादिनिषिद्धाचरणे नरकादिदुःखं भविष्यतीत्यादिकल्पनैकनिरतान्तःकरणः पुरुष इत्यर्थः, न नैव, सिद्धयति मुक्तो भवति, आगमसदादरः आगमे-जिनवचने; आप्तपरम्पराप्रणीतराद्धान्तसन्दोहे च, सदा-सर्वदा, आदरः-बहुमानो यस्य स आगमसदादरः, निरन्तरमागमध्ययनाध्यापनकदत्तचित्त इत्यर्थः, न नैव, सिद्धयतीत्यनुकर्षणीयं पूर्ववद् व्याख्येयम् , पदार्थभक्तीश्वरः एते पदार्था इत्थमुपपत्तिपद्धति यन्ति नान्यथेत्येवं या पदार्थोपपादनलक्षणा पदार्थभक्तिस्तया तस्या वा ईश्वरः-लोकानां बुधमुकुटानां परीक्षकाणां मध्ये प्रधानः-पदार्थभक्तीश्वरः, न च नैव सिद्धयतीत्यनुकर्षणीयम् , शून्य_टतस्मृतिः शून्येन शून्यलक्षणविषयेन, घटिता-युक्ता, स्मृतिः-स्मरणं यस्य स शून्यर्घाटतरमृतिः, सर्वदा निराकारं ब्रह्म शून्यं वा स्मरन् पुरुषः, न देव, सिद्धयतीत्यर्थः, शयनोदरस्थः शयनस्य-सुषुप्तेः, उदरे तदवस्थाक्रान्त - समये, स्थितः-शयनोदरस्थः, सर्वदा सुषुप्तिमेव परमं निर्वाणं मत्वा सेवमानः, न नैव, सिद्धयतीत्यर्थः, परं केवलं, हे भगवन् ! त्वं यथा येन प्रकारेण, आत्थ कथयसि, ततः तस्माद् भवत्कथितप्रकारात् , हितपरीक्षकैः इदमेव हितं नान्यदित्येवं परमतनिराकरणपूर्वक-स्वमतव्यवस्थापन प्रगल्भैः, न मन्यते हितं न मननविषयीक्रियत इति, नवेत्यस्य निषेधमात्रार्थकत्वान्निषेधद्वयेन प्रकृतार्थदााद् हितं मन्यत एवेति भवदुपदिष्टाचरणाचान्तान्तःकरणः सिद्धयतीत्यर्थः, अथवा हित इति पृथक्, हे हित! निखिलजन्तुहितकारक !, न वा इत्यत्र वाशब्दः समुच्चयार्थः, नकारद्वयेन च प्रस्तुतार्थदाढयं ज्ञेयम् / 'मन्यते' इति स्थाने 'गम्यते' इति पाठेऽपि गत्यर्थानां ज्ञानार्थत्वात् प्रागुक्त एवार्थः फलति // 20 //