________________ दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / 99 उत्कृष्टास्तिकत्वादिधर्मवत्त्वेन सर्वोत्कृष्टतया भगवन्तं स्तौति त्वमेव परमास्तिकः परमशून्यवादी भवान् त्वमुज्ज्वलविनिर्णयोऽप्यवचनीयवादः पुनः / परस्परविरुद्धतत्त्वसमयश्च मुश्लिष्टवाक् त्वमेव भगवनकम्प्यसुनयो यथा कस्तथा // 21 // त्वमेवेति / अन्वयो यथाश्रुतानुपात्येव, हे भगवन् ! त्वमेव विशेष्यसङ्गतैवकारस्यान्ययोगव्यवच्छेदकार्थकत्वाज्जिनभिन्ने परमास्तिकत्वं व्यवच्छिनत्ति, परमास्तिकः अस्ति स्वर्गः, अस्ति नरकमित्येवं परलोकविशेष्यकास्तित्वप्रका. रकनिर्णयवान् आस्तिकः, स च जैना-ऽक्षपाद-कणाद-सांख्य-मीमांसक-बौद्धभेदेन षोढा प्रसिद्धः, सांख्यस्य सेश्वराऽनीश्वरभेदेन द्विविधतया तत्रैवेश्वराभ्युपगन्तृपातञ्जलेश्वरानभ्युपगन्तृकापिलयोरन्तर्भावः. मीमांसायाः पूर्वोत्तरमीमांसाभेदेन द्विविधत्वेन तत्र कर्मकाण्डप्रधानपूर्वमीमांसामननप्रवणस्य जैमिनिमुन्यनुयायिनो मीमांसकस्य ज्ञानकाण्डप्रधानोत्तरमीमांसामननप्रवणस्य व्यासानुयायिनो वेदान्तिनश्च मीमांसकान्तर्भावः, एवं षण्णामास्तिकानां मध्ये धर्मास्तिकायादीनामप्यस्तितास्वीकारेणोत्कृष्टतमत्वात् परमास्तिकस्त्वमेव, त्वदन्यावृत्तिपरमास्तिकत्ववान् त्वमित्यर्थः; परमशून्यवादी ब्रह्मातिरिक्तं नास्तीत्येवं ब्रह्मातिरिक्तस्य शून्यत्वम्-अभावं वन् ब्रह्माद्वैतवादी भवति शून्यवादी, सौत्रान्तिक-वैभाषिक-योगाचार-माध्यमिकभेदेन चतुर्विधेषु बोद्धेषु बाह्यमाभ्यन्तरं च किमपि वस्तु युक्त्या नोपपद्यत इति नास्तीत्येवं सर्व शून्यं ब्रुवन् माध्यमिकः शून्यवादी, सर्व वस्तु स्वद्रव्यादिरूपेण सदपि परद्रव्यादिरूपेणासदेवेत्येवमसत्त्वलक्षणशून्यत्वमेव सर्वस्य वस्तुनोऽभिदधत् जिनोऽपि शून्यवादी, तेषु भवान् जिन एव परमशून्यवादी, त्वं जिनः, उज्ज्वलविनिर्णयोऽपि उज्ज्वल:-अत्यन्तप्रकाशमानो विशेषेण निर्णयो यस्य स उज्ज्वलविनिर्णयः, एवंस्वरूपोऽपि, पुनः तथा, अवचनीयवादः वचनीयः-गर्हितो न भवतीत्यवचनीयोऽनिन्दितः, अथवा अवचनीयः-गुणातिरेकतो वर्णयितुमशक्यः, यद्वा 'स्यादवक्तव्य एव' इति भङ्गाकलितः वादः-राद्धान्तो यस्य सोऽवचनीयवादः, अनिन्दितपरमोच्चस्याद्वादराद्धान्तः, त्वमेव, च पुनः, परस्परविरुद्ध