________________ दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / / तत्त्वसमयः परस्परं विरुद्धानि एकावच्छेदेनैकत्राधिकरणेऽवर्तमानानि, , तत्त्वानि सत्त्वासत्त्वावक्तव्यत्वादीनि परस्परविरुद्धतत्त्वानि तेषां समयः-एका विभिन्नावच्छेदेन वृत्तिप्रतिपादक आगमो यस्य स परस्परविरुद्धममयः, त्वमेव सुश्लिष्ट वाक् सुश्लिष्टाः-परस्परं सङ्गताः, वाचो यस्य स सुश्लिष्टवाक्, अयोऽन्यसङ्गतपूर्वापरीभावापन्नवाक्यवक्ता, त्वमेव जिन एव, हे भगवन् ! त्वं या अकम्प्यसुनयः अकम्प्याः -बाधायुद्भावनेन परेण कम्पयितुं-स्व विषयात् च्यावयितुम शक्याः, सुनया:-संग्रह-व्यवहारादयो यस्य स अकम्प्यसनयः, तथा अकम्प्यसमयः, कः भवदन्यः न कोऽपीत्यर्थः // 21 // भवदुपदिष्टागम-तदर्थो सुनयनिष्प्रकम्पावित्युपदर्शयति---- न किश्चदुपलक्ष्यते गगन-काष्ठयोरन्तरं न चापि न पृथक् तयोस्तदुपलक्षितं लक्षणम् / न चास्ति नियमो दिशां न च हितोचितैषा स्थिति... स्त्वदीयमिव शासनं सुनयनिष्प्रकम्पाः स्थिताः // 22 // न किञ्चिदिति / गगन-काष्ठयोः किञ्चिदन्तरं नोपलक्ष्यते, तयोस्तदुपलक्षितं लक्षणं पृथक् नेति न चापि, दिशां नियमो न चास्ति एषः स्थितिर्हितो. चिता न च, त्वदीयं शासनमिव सुनयनिष्प्रकम्पाः स्थिताः” इत्यन्ट यः / गगनकष्ठयोः आकाश-दिशोः, "दिशस्तु ककुभ: काष्ठा'' इति कोशात् काष्ठाशब्दो दिगवाचकः, किञ्चित् अण्वपि, अन्तरं भेदो विरुद्धधर्मत्त्वलक्षणः, न नैव, उपलक्ष्यते उपलभ्यते, तत् किं तयोर्भेद एव नास्ति विभन्न वा लक्षणं न समस्तीत्यत आह-तयोः गगन-दिशोः, तदुपलक्षितं लक्ष्यभेदोपलक्षितं, लक्ष्य. भेदे सति लक्षणमेद आवश्यक इति लक्षणस्य लक्ष्यभेदोपलक्षितं, नियतम् , लक्षणं विभिन्नव्यवहार-लक्ष्येतरभेदान्य तरानुमापकं लक्ष्यातावच्छेदकसमनियतधर्मवत्त्वरूपं, पृथक भिन्न, न नैव इति, न चापि निषेधद्वयस्य प्रकृतार्थावधारणपर्यवसितत्वेन भिन्नमेवेत्यर्थः, 'अयमस्मात् पूर्वः, अयमस्मात् पश्चिमः' इत्यादिव्यवहारकारणं क्षेत्र पूर्वादिदिक्, एतादृशव्यवहारानपेक्ष क्षेत्रमाकाश मिति भिन्नलक्षणसत्त्वादित्यर्थः / दिशां वस्तुस्वरूपनिरूपणप्रकाराणाम् , नियमः