________________ दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका। 101 अयमेव नातोऽन्यथेति नास्ति, शिष्यादिबुद्धिवैशद्यार्थं कश्चिद् गुरुभूतोऽपि निरूपणप्रकार आहतो भवति, ग्रन्थगौरवपरिहारार्थं च कुत्रचिल्लघुभूतप्रकार एवोपदर्यते, मन्दमतिप्रबोधनाय कुत्रचिल्लक्षणस्याव्याप्त्यादिदोषापनयनमपि क्रियते इत्येवं दिशां नियमाभाव एव, एषा अनन्तरोपवर्णिता, स्थितिः लक्ष्यलक्षणादिव्यवस्था, हितोचिता स्वस्वसमीहितानुसारिणो, न च नैव, लक्ष्यैकचक्षुषो हि शास्त्रकारा लक्ष्यानुरोध्येव लक्षणं प्रणयन्ति, न तु हितानुसारोत्यभिसन्धिः / यद्वा दिशां पूर्वादिकाष्ठाना, नियमः इयमेव प्राचो, इयमेव प्रतीची, इयं प्रतीच्येव इत्यादिनियमः, न नैव, एकापेक्षया प्राच्यपि परापेक्षया प्रतीची भवतीत्यर्थः / हे भगवन् ! त्वदीयं जिनोदितं, शासनमिव श्रुतमिव, त्वदीयं शासनं यथा सुनयनिष्प्रकम्प तथा लक्ष्यलक्षणादिपदार्थाः, सुनियनिष्प्रकम्पाः विषय-विषयिणोरमेदोपचारात् सुनयाश्च ते निष्प्रकम्पाः सुनयनिष्प्रकम्पाः, सुनयविषयत्वादेव बाधादिलक्षणकम्परहिताः, अथवा मुनयो निष्पकम्पो येषु ते सुनयनिष्प्रकम्पाः अबाधितसुनयविषया इत्यर्थः, स्थिताः व्यवस्थिता // 22 // ___ जिनस्य राग द्वेषमलाकलुषितराद्धान्तनिकषोपले सर्वाऽपि परीक्षा परीक्ष्यतत्त्वनिर्णये समर्थेत्येतद् व्ययचयविषयपरीक्षोपवर्णनेन समर्धयति व्ययोऽपि पुनरुद्भवे भवति कर्मणां कारणं चयोऽपि च परं ललाम भवनिर्जराबोधने / करोति मलमर्जयन्नपि च निष्कृति कर्मणां न वा क्व तव तीर्णसङ्गनिकषे परीक्षा क्षमा // 23 // व्ययोऽपीति / "कर्मणां पुनरुद्भवे कारणं व्ययोऽपि भवति, भवनिर्जराबोधने चयोऽपि च परं ललाम, च-पुनः मलमर्जयन्नपि कर्मणां निष्कृति करोति, हे जिन ! तव तीर्णसङ्गनिकषे परीक्षा व वा न क्षमा” इत्यन्वयः / कर्मणां ज्ञानावरणीयादिकर्मणां, पुनरुद्भवे पुनरुत्पत्ती, आत्मप्रदेशैः समं कर्मपुद्गलानां क्षीरनीरन्यायेन सम्बधने, कारणं निमित्त, व्ययोऽपि उपभोगेन पूर्वबद्धकर्मणां विनाशोऽपि जीवप्रदेशेभ्यो पृथग्भवनलक्षणः भवति, वैशेषिकमते च "कर्म कर्मसाध्यं न विद्यते” इति कर्मणः कर्मप्रतिबन्धकत्वेन तद्ध्वंसस्य प्रतिबन्धका