________________ 102 दिवाकर कृता किरणावलीकलिता तृतीया द्वात्रिंशिका / भावविधया कर्मकारणत्वमिति, एतावता व्ययस्य बन्धकारणत्वं प्रतिपादित भवति, भवनिर्जराबोधने भवस्य-संसारस्य, जीवप्रदेशसम्पृक्तकर्मणि सति संसार इति तन्नियतत्वाज्जोवप्रदेशसंश्लिष्टकर्मणः, निर्जरा-निर्जरणं जीवप्रदेशेभ्यः पृथग भवनं, तद्वोधने--तज्ज्ञापने, चयोऽपि कर्मपुद्गलसंचयोऽपि, परं उत्कृष्टं, ललाम मनोहरं स्पृहणीय वस्तु, परं स्पृहणीयमित्यर्थः, च पुनः, मलं कर्ममलम्, अर्जयन्नपि काय-वाङ् मनोयोगैः सञ्चिन्वन्नपि, कर्मणां निष्कृति विनाशं, करोति उत्पादयति, एतावता चयस्येष्टत्वमर्थादावेदितम् , हे जिन ! तव जिनस्य, तीर्णसङ्गनिकषे तीर्णः-पारमितः, सङ्गः-राग-द्वेषसम्बन्धो यत्र स तीर्णसङ्गः, माध्यस्थ्यामर्थः, तीर्णसङ्ग चासौ निकषश्च तीर्णसङ्गनिकषः, स्वर्णादिपरीक्षानिमित्तमुपलविशेषो निकषः, तत्तादात्म्यारोपात् तीर्णसङ्गोऽपि निकषः, तत्र, क्व वा कस्मिन् विषये वा, परीक्षा इदमित्थं भवितुमर्हतीति विचारणा, न क्षमा न समर्था ?, सर्वस्मिन विषये परीक्षा समर्था वेत्यर्थः / / 23 / / भव्यजनान्तःकरणं विशति जिनमतमित्युपदर्शयति--- न कर्मफलगौरवाद् व्रजति नाप्यकर्मा क्वचित् न चापि मरणादपेत्य न च सर्वथैवामृतः / न चेन्द्रियगणं विहाय न तनुं न चैवान्यथा मतं तव निरञ्जनं विशति भव्यधीरं जनम् // 24 // न कर्मेति / “कर्मफलगौरवान्न क्वचिद् व्रजति, अकर्मा क्वचिन्नापि व्रजति, मरणादपेत्यापि न च व्रजति, तनुं विहाय न व्रजति, अन्यथैव न च व्रजति, हे जिन ! तव निरञ्जनं मतं भव्यधोरं जनं विशति" इत्यन्वयः। कर्मफलगौरवात् कर्मणः फलं-कर्मफलं तस्य गौरवात्-विशिष्टत्वात् , न नैव, क्वचित् स्वर्गादौ, व्रजति गच्छति, वर्तमानवसत्यपेक्षया विशिष्ट कर्मफलं स्वर्गादौ भविष्यतीत्येतस्मात् कारणादेतल्लोकं परित्यज्य परलोकं गच्छतीति न, अस्वतन्त्रस्य-कर्मकालादिपराधीनस्य कर्मफलगौरवमात्रेण परलोकादिगमनासम्भवात् , अकर्मा कर्मरहितः पुरुषः, क्वचित् कुत्रापि. नापि नव, व्रजति, ऊर्ध्वगमनस्वभावस्य जीवस्य यत् तिर्यगादिदेशगमनं परलोकगमनं वा, तत्र कर्मसम्बन्धस्यैव कारणत्वेन तदभावे