________________ दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / 103 तिर्यगादिदेशगमनासम्भवात् , मरणात् शरीरप्राणादिवियोगात् , अपेत्यापि अन्यदेशं गत्वापि, न च नैव, व्रजति, गन्तव्यं देशं प्राणवियोगानन्तरमेव जीवो गच्छति न तु प्राणवियोगानन्तरं कञ्चित् कालमन्यत्र स्थित्वा, ततो गमनस्यासम्भवात् , पूर्वापरभवयोरानन्तर्यस्यैव कर्मकृतत्वात्, सर्वथैव सर्वप्रकारेणैव, अमृतो मरणरहितो मुक्तो वा, न च व्रजति, पूर्वशरीर पाणवियोगस्योत्तरशरीरप्राणाद्यसंयोगं प्रति कारणत्वेन मरणाभावे उत्तरशरीरपरिग्रहार्थ गमनासम्भवात् , मुक्तस्य च तिर्यगादिदेशगमनकारणकर्माभावेन यद्वा परलोकगमनकारणकर्माभावेन तथागमनासम्भवात् , इन्द्रियगण द्रव्येन्द्रिय-भावेन्दियलक्षणद्विविधमिन्द्रिय, विहाय परित्यज्य न च व्रजति, ध्येन्द्रियत्यागेऽपि उपयोगलक्षणभावेन्द्रियाभावे उपयोगात्मकजीवस्यैवाभावप्रसक्तया तत्परित्यागेन गमनासम्भवात् , तनुं शरीरं, विहाय परित्यज्य, न च व्रजति, औदारिकादिशरीरत्यागेऽपि आसंसारं कार्मणशरीरसम्बन्धस्यावश्यम्भावेन तत्परित्यागे उर्ध्वगमनस्वभावस्य जीवस्य लोकान्तरव्यवस्थितमुक्तिशिलागमनावश्यम्भावेन परलोकगमनासम्भवात्, अन्यथैव जिनोदितगमनप्रकारव्यतिरिक्तैकान्तवाद्यपदर्शितप्रकारेणैव, न च नैव, व्रजति, तादृशप्रकारस्य समयाम्बुधावपाकृतत्वात्, हे जिन ! तव, निरञ्जनं दोषाजनविमुक्त मतं कर्तृ, भव्यधीरं मुक्तिरामनयोग्यसूक्ष्मशेमुषोशालिन, जनं प्राणिनं, विशति तदन्तःप्रविष्टं भवति, भव्यधीरजन एव निरुक्तजिनमतं सम्यगवबोधुमीश इत्यर्थः // 24 // जिनेन्द्रोपदिष्टशासनस्य बुधैराश्रयणे निमित्तमुपदर्शयतिचराचरविशेषितं जगदनेकदुःखान्तिक मनादिभवहेतुगूढदृढशृङ्खलाबन्धनम् / उदाहृतमिदं जिनेन्द्र ! सविपर्ययं यत् त्वया ह्यनेन भवशासनं तव मृता बुधाः शासनम् // 25 // - चराचरविशेषितमिति / “हे जिनेन्द्र ! चराचरविशेषितम् अनेक दुःखान्तिकम्, अनादिभवहेतुगूढदृढशृङ्खलाबन्धनम् इदं जगत् सविपर्ययं यत्