________________ 104 दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / त्वयोदाहृतं हि अनेन तव भवशासनं शासनं सृताः बुधाः' इत्यन्वयः। हे जिनेन्द्र ! चराचरविशेषितं चरं चाचरं च चराऽचरे, ताभ्यां विशेषितं जगम-स्थावर. स्वरूपम्, अनेकदुःखान्तिकम् अनेकानि दुःखानि अनेकदुःखानि, अनेक-दुःखानि अन्तिके समीपे यस्य तदनेकदुःखान्तिकं, समीपतरवर्त्यनेकदुःखम् , अनादिभषहेतुगूढदृढशृङ्खलाबन्धन न विद्यते आदिः-स्वक्षणध्वंसानधिकरणक्षणसम्बन्धी यस्थ सोऽनादिः, अनादित्वं च प्रकृते प्रवाहापेक्षया बोध्यम् , भवति-पुनः पुनआयते प्राणी अस्मिन् स भवः संसारः, अनादिश्चासौ भवश्चानादिभवः, तस्य हेतवः निमित्तानि अमादिभव हेतवः, तेषां गूढं चर्मचक्षुषामदृश्यं दृढं त्रोटयितुमशक्य, गडलया-अन्योऽन्यसन्नद्धानेकलोहाङगुलीयकमय्या रज्ज्वा, बन्धममिव बन्धनं यत्र तत् अमादिभवहेतुगूढदृढशङ्खलाबन्धनम्, एतादृशम् इदं प्रत्यक्षविषयीभूतं, जगत् त्रिभुवनम् , सविपर्यय विपर्ययेण स्वविपरीतेन सह वर्तत इति सविपर्ययं, यत् यस्मात् त्वया जिनेन, उदाहृतम् उपदर्शितम्, हीति आश्चर्ये कथमिदमित्थमुपदर्शितमित्येतत् परिभावयितुमप्यशक्यमस्मदादिभिरित्याश्चर्यम्, अनेन सविपर्ययजगत्स्वरूपोपदर्शनेन तव जिमस्य, भवशासनं भवस्य-संसारस्य, शासमसम्यगवबोधकं, शासनं स्याद्वादराद्धान्त, सृताः आश्रिताः, बुधाः पण्डिता इत्यर्थः // 25 // क्रिया क्रियावतोगुण-गुणिनोः कथञ्चिदमेदवादो जिनस्य सिंहनादो वादान्तराप्रतिहत इत्याहक्रिया भवति कस्यचिन्न च विनिष्पतत्याश्रयात् स्वयं च गतिमान् व्रजत्यथ च हेतुमाकाङ्क्षते / गुणोऽपि गुणवच्छूितो न च तदन्तरं विद्यते त्वयैष भजनोजितः सुगद ! सिंहनादः कृतः // 26 // क्रियेति / “कस्यचित् क्रिया भवति, आश्रयान्न च निष्पतति, स्वयं च गतिमान् ब्रजति, अथ च हेतुमाकाउक्षते, गुणोऽपि गुणवच्छितः, तदन्तरं न च विधते, हे सुगद ! स्वयैव भजनोर्जितः सिंहनादः कृतः” इत्यन्क्यः ।त् कस्यचि