________________ दिवाकर कृता किरणावलीकलिता तृतीया द्वात्रिंशिका / 105 यत्किञ्चिद्वस्तुनः, क्रिया कर्म, न भवति जायते, एतेत न वस्तुत्वव्यापिका नापि निराश्रिता क्रियेति नापि निर्हेतुकेति प्रतिपादितम्, कस्यचिदिति षष्ठीसम्बन्ध. प्रतिपादिका, सम्बन्धश्च सम्बन्धिनोभेंदे सत्येव भवति, अभेदे घटस्य घट इति सम्बन्धाप्रतीतः, यश्च यस्माद् भिन्नः स तमतिपतत्यपि, यथा पटो घटाद् भिन्नो घटमतिक्रम्यापि वर्तते, तथा च क्रिया यदि आश्रयाद् भिन्नैव तर्हि आश्रयं विहायाऽपि स्यात्, न चाश्रयं विहाय क्रिया व्यवतिष्ठत इत्यतस्ततोऽभिन्नाऽपीत्याहन च विनिष्पतत्याश्रयात् आश्रयात् आधारात्, न च नैव, विनिष्पततिअन्यत्र गच्छति, गतिमत्स्वभावस्यैव वस्तुनो गमनं भवति नागतिमत्स्वभावस्येत्याहस्वयं च गतिमान् ब्रजति स्वमेव गतिक्रियावान् गच्छति, यदि च गतिक्रियातद्वतोरभेदो न स्यात् तर्हि स्वयं गतिमान्न भवेदतस्तयोरमेद उपेयः, यदि च गति-तद्वतोः सर्वथैवाभेदस्तहि स्वकारणेभ्य उत्पद्यमानो गतिमान् गत्या सहैवोत्पद्येत, न चैवं किन्तु पूर्व स्वकारणेभ्यो गतिविकल एवोत्पद्यते, गतिहेतुमपेक्ष्य च तत्र गतिरुत्पद्यत इत्यतस्तयोर्भेदोऽपीत्याह- अथ च स्वयं गतिमत्त्वेऽपि च, हेतुं गत्युत्पत्तौ कारणम् , आकारक्षते अपेक्षते, इत्थं क्रिया-क्रियावतोरर्थतः कथञ्चिद्भेदाभेदौ समर्थ्य गुण-गुणिनोस्तौ समर्थयति-गुणो. ऽपि यथा स्वाश्रयाश्रिता क्रिया तथागुणः, गुणच्छ्रितः गुणवदाश्रितः, आश्रयाश्रयिभावस्य भेदनियतत्वाद् गुण-तद्वतोभैंद एतावता सिद्धयति, संयुक्तयोभिन्नयोरगुलयोरन्तरं समस्ति, न च गुण-गुणिनोभिन्नयोरपि सतोरन्तरं समस्तीत्यतस्तयोरभेदोऽपीत्याह-तदन्तरं गुण-गुणवतोरन्तरं, न च नैव, विद्यते समस्ति, हे सुगद ! सुष्टु गदनं-वचनं वाग्विलासो यस्य स सुगदः, तत्सम्बोधने -हे सुगद !, त्वयैव जिनेनैव, भजनोर्जितः केनचिद्रूपेण भेदः केनचिद्रूपेणामेद इत्येवं यः स्याद्वादः, तेनोर्जितः-परिपुष्टः, सिंहनादः वादिगजेन्द्रवित्रासनहेतुत्वात् सिंहनादसमो वादः कृतः, त्रस्यन्ति सर्वेऽपि वादिप्रवरा भवत्कृतस्याद्वादोद्गारलक्षणसिंहनादेनेत्यर्थः / / 6 / / ___ अतिमनोहरस्य वीरवाक्यस्य दोषासम्पृक्तत्वमुपदर्शयतिन जातु नरकं नरो व्रजति सागसोऽप्यन्तसो न चापि नरकादपायमनवेत्य संवेद्यते /