________________ 106 दिवाकर कृता किरणावलीकलिता तृतीया द्वात्रिंशिका / कदाचिदिह वैरमाप्य नरकोपगं मुच्यते न चापि तव वीर ! वाक्यमतिपेशलं दोपलम् // 27 // न जात्विति / “सागसोऽपि नरो जातु अन्तशो नरकं न व्रजति, नरकादपायमनवेत्य न च संवेद्यते, इह कदाचित् नरकोपगं वैरमाप्य मुच्यते, हे वीर ! तवातिपेशलं वाक्यं न चापि दोषलम्" इत्यन्वयः / सागसोऽपि प्राणिघाताद्यपराधनिकरसहितोऽपि, नरः प्राणी, जातु कदाचित्, अन्तसः एतत्स्थाने 'अन्तशः' इति पाठः सम्यगाभाति, अनुप्रासानुरोधेन तादृशपाठे वा स-शयोरैक्यमाश्रयणीयम् , अन्तशः प्रान्ते, एतद्भवीयजीवनसमाप्तौ सत्यामित्यर्थः, नरकं न व्रजति, अपराधकार्यपि पुरुषोऽनन्तरं अपराधक्षमायाचनादिना पापविलयीकरणतः शुभाचरणादिना पुण्योपार्जनतश्च नरकं न गच्छति, उत्तरोत्तरं पुण्यपरम्परोपनिपातप्रभवस्वर्गादिफलोपभोगस्यैवावाप्तेः, नरकात् नरकगतितो जायमानम्, अपायं पोडादिकम् , अनवेत्य अज्ञात्वा, न संवेद्यते न सम्यक्प्रकारेण वेद्यते-उपभुज्यते, अयं . भावः-घोरतरं नरके दुःखं, तजनकं च कर्म मया कृतम् , अथ पापप्रायश्चित्तादिना विमुक्तो भवामीति धिया पापप्रायश्चित्तादिना तत् कर्म स्थितिघात-रसघातादिना प्रकारेण ह्रस्वीकृत्य नीरसीकृत्य च भुङ्क्ते नान्यथा, यद्वा नरकभवतः पीडादिकमवाप्येव तत् कर्म भुज्यते नान्यथा भोगसाधनमन्तरेण भोगाभावात् , इह अस्मिन् भवे, कदाचित् , नरकोपगं नरक. समीपगं, नरकगतिप्रायकमित्यर्थः, पैरं शत्रुभावम् , आप्य प्राप्य, प्रसन्नचन्द्र. राजर्षिवत् तदानीमेव केवलज्ञानोत्पत्त्या, मुच्यते मुक्तो भवति, हे वोर ! तव एवम्भूतार्थप्रतिपादकम्, अतिपेशलम् अत्यन्तमनोहरं, वाक्यं वचनम्, न चापि नापि च, दोषलं दोषं लाति-गृह्णातीति दोषलं दोषग्रस्तमित्यर्थः // 27 // एकस्मिन् परस्परविरुद्धधर्मद्वयप्रतिपादकं वचनं दुरुक्तं यो न मन्यते स जिनमतं मन्यते. अथवा दुरुक्तं यो मन्यते स जिनमतं न मन्यत इत्याहशयानमतिजागरूकमतिशायिनं जागरं . ससंज्ञमपि वीतसंज्ञमथ मोमुहं संज्ञिनम् /