________________ दिवाकर कृता किरणावलीकलिता तृतीया द्वात्रिंशिका / 107 विकत्थनमभाषिणं वचनमूकमाभाषिणं दुरुक्तमिव मन्यते न तव यो मतं मन्यते // 28 // शयानमिति / अन्वयो यथाश्रुतानुसार्येव / अतिजागरूकम् अत्यन्तजाग्रदवस्थम् , शयानं सुषुप्त्यवस्थम् , जागरण-सुषुप्तयोः परस्परविरोधेन विरुद्धधर्मद्वयस्यैकदैकत्र सम्भवाभावेन तथोक्तेदुरुक्तत्वम्, अतिशायिनम् अत्यन्तसुषुप्त्यवस्थं, जागरं जाग्रदवस्थम् , अत्रापि दुरुक्तत्वं पूर्ववदेव, ससंज्ञमपि संज्ञानाम ज्ञान वा, तेन सहितमपि, वीतसंज्ञं संज्ञारहितम् , अत्रापि विरोधाद् दुरुक्तता, अथ एवम् , मोमुहं मूर्छावस्थम् , संज्ञिनं सचेष्टम् , मूछितो हि निश्चेष्टस्तदैव न सचेष्ट इति दुरुक्तता, विकत्थनम् आत्मश्लाघावाचालम्, अभाषिण किञ्चिदपि वक्तुमसमर्थम् , वाचालवावक्तृत्वयोरेकदै कत्रासम्भवात् तद्वचनस्य दुरुक्तत्वं स्यादेव, वचनमूकं वचनेति विशेषणसामर्थ्यादत्यन्तमूकम् , आभाषिणम् अत्यन्तवचन प्रगल्भम्, अत्रापि दुरुक्तत्वं पूर्ववदेव / अपेक्षाभेदेनैकत्रैकदा शयानत्वातिजागरूकत्वादीनां सम्भवाद् वस्तुतो नास्ति दुरुक्तता, तथापि दुरुक्तमिव इवशब्दस्यैवकारार्थकत्वाद् दुरुक्तमेव. मन्यते जानाति, क एवं मन्यते? इत्याकाङ्क्षायामाह-हे जिन ! यः पुरुष एकान्तवादकदाग्रहगृहीतः, तव जिनस्य, मतम् अनन्तधर्मात्मकत्वप्ररूपकानेकान्तवादम्, न नैव, मन्यते स्वीकरोति, बाह्येन्द्रियवृत्तिनिरोधेनात्मस्वरूपं भावयन्तं योगिनं बाह्यार्थज्ञानसाम्मुख्याभावाच्छयानम् , आत्मस्वरूपात्यन्तप्रकाशमयज्ञानवत्त्वादतिजागरूकम् / अतिशायिनं बहिरिन्द्रियवृत्तिनिरोध-मनोवृत्तिनिरोधोभयवत्त्वेन बाह्यान्तरिकज्ञानसाम्मुख्याभावादतिशायिन, शुद्धात्मकतानत्वेन परमयोगकाष्टोपगतत्वेन जागरं, तत्तच्छरीरावच्छिन्नात्मस्वरूपत्वेन पित्रादिसङ्केतित देवदत्तादिसंज्ञावाच्यत्वात् ससंज्ञमपि, वस्तुस्थित्याऽखण्डानन्दस्वरूपत्वेन पारिभाषिकसंज्ञाविकलत्वात् वीतसंज्ञम्, एवं पुत्र-कलत्रधनादिषु ममतालक्षणमोहवत्तया मोमुहं, तत्परिपालनादिचेष्टावत्त्वेन संज्ञिनम् , आत्मश्लाघित्वेन विकत्थनं पर लाघापराङ्मुखत्वेनाभाषिणम्, यत्र यद्वचनसमुचितं तन्न वक्तीति वचनमूकम् , परव्यामोहार्थमुच्चैः स्वरैर्यद्वा तद्वा वक्तीति आभाषिणमित्येवं प्रकारान्तरेण वापेक्षाभेदेनानन्तधर्मात्मकवस्तुनि सर्वं वचनं सूक्तमेव न दुरुक्तमिति जनमतं विजयत इत्यर्थः // 28 //