________________ 108 दिवाकर कृता किरणावलीकलिता तृतीया द्वात्रिशिका / कर्मणामतिकुटिला गतिजिनैनेवोपदर्शितेत्याहन मोहमतिवृत्त्य बन्ध उदितस्त्वया कर्मणां न चैकमपि बन्धनं प्रकृतिबन्धभावो महान् / अनादिभवहेतुरेष न च बध्यते नासकृत् त्वयाऽतिकुटिला गतिः कुशल ! कर्मणां दर्शिता // 29 // न मोहमतिवृत्त्येति / हे जिन ! मोहमतिवृत्त्य कर्मणां बन्धस्त्वया नोदाहृतः, च पुनः, बन्धनमपि एकं न, प्रकृतिबन्धभावो महान् , एष असकृत् न बध्यते इति न च, हे कुशल ! त्वया कर्मणां अतिकुटिला गतिः दशिता" इत्यन्वयः / मोहम् अहङ्कार-ममकारावलीढचित्तपरिणारं यद्वा मोहनीयकर्मजनितं मिथ्यात्वप रेगाममविरतिपरिणामं कषायपरिणामं च, अतिवृत्त्य अनाश्रित्य, कर्मणां ज्ञानावरणीयादीनामष्टविधकर्मणाम् , बन्धः दर्शितस्वरूपः, त्वया जिनेन, न नैव, उदाहृतः प्रतिपादितः, मिथ्यात्वा-ऽविरतिकषाय-योगैः किल जीवः कर्म बनानातीति जिनोपदेशः, . अत्र योगस्याग्रहण केवलयोगजन्यबन्धस्य परमनिकृष्टस्थितिकत्वादविवक्षा, यद्वोपलक्षणभावेन योगोऽपि विज्ञेयः, च पुनः, बन्धनमपि कर्मबन्धोऽपि, नेकविधं न एकप्रकारकं, अयंभावः-न एकप्रकारक एव बन्धः, किन्तु चतुर्धा, प्रकृतिबन्ध-स्थितिबन्ध - रसबन्ध-प्रदेशबन्धभेदाद् बन्धानां चातुविध्यात्, कर्मणां ज्ञानावरकत्वादिस्वभावः-प्रकृतिः, स्थिति:कालावधारणम् , रसः-अनुभागः, प्रदेश:-दलसंचयः, यदुक्तम् "प्रकृतिः स्वभावः स्यात् , स्थितिः कालावधारणम् / अनुभागो रसो ज्ञेयः, प्रदेशो दलसंचयः // 11 // " सर्वत्र कर्मणामिति सम्बन्धनोयम्, एषु चतुर्विधबन्धेषु मध्ये को महानित्याकाक्षायामाह-प्रकृतिबन्धभावो महानिति-प्रकृतेः-ज्ञानाद्यावारकत्वादिस्वभावस्य बन्धभावः-कर्मभिः आत्मसात्करणम् , महान्-प्रबलः, कुतो महत्त्वमित्याकाक्षायामाह-अनादोत्यादि-एष अनन्तरोपवर्णितः प्रकृतिबन्धभावः, अनादेः, भवस्य-संसारस्य हेतुः, कर्मणां ज्ञानाद्यावारकत्वस्वभावे सति जीवगुणानां व्याघात. स्ततश्च संसारः, स च प्रवाहापेक्षयाऽनादिः, ननु कथं सकृद्बन्धेऽनादिभवहेतुता