________________ दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / 109 संभवेदित्यत आह-न चेत्यादि / असकृत् वारंवारं, न बध्यते कर्मभिस्तादृशशक्तिरात्मसात् न क्रियते इति, न च नैव, अर्थात् वारंवारं प्रकृतिबन्धो भवतीति जिनेन, गदिता कथितेत्यर्थः / / 29 / / जिनदर्शित कर्मोदय प्रकारानु पदर्शयतिइहैव परिपाकमेति विहितं परे वा भवे भवोऽपि न भवेऽस्ति नैव न भवत्यसौ प्रागपि / कचिच्च कृतमन्यथा फलति सर्वथैवान्यथा अवन्ध्यमिह चोदित सुकृतमष्टसङ्ख्यं त्वया // 30 // इहैवेति / “विहितमिहैव परिपाकमेति, वा परे भवे [परिपाकमेति] भवे भवोऽपि नास्ति, असौ प्रागपि न भवति नैवं, कचिच्चान्यथा कृतं सर्वथैवान्यथा फलति च, [ पुनः ] त्वया इह सुकृतमष्टसङ्ख्यमवन्ध्यमुदितम्" इत्यन्वयः / विहितं मिथ्यात्वादिना कृतं कर्म, इहैव यस्मिन् भवे कृतं तस्मिन्नेव भवे, परिपाकं फल प्रदानसाम्मुख्यम् , उदयमिति यावत, एति प्राप्नोति, एतद्भव एव फलोपभोगो भवतीत्यर्थः, अत एवोच्यते-“अत्युग्रपुण्यपापानामिहैव फलमश्नुते / " इति, वा अथवा, परे. परस्मिन् , भवे, जन्मान्तरे परिपाकमेतीति सम्बन्धः, कुतः ! बन्धोदयमध्यवर्तिकालात्मकाबाधाकालस्य नानाविधत्वात् , यद्वा इह जन्मनि कृतामायुष्कर्म परभव एवोदयमायाति नास्मिन् भवे इति तदपेक्षया परभवे एव परिपाकमेतीति सावधारणतयापि व्याख्येयम्, नन्वेतावता कृतस्यैव कर्मणः फलमुपवर्णितम् एवं सति संसारस्य प्राथमिकोत्पत्तौ पुरा कर्मणोऽकृतत्वात् कथं तदुपभोग इत्याशङ्कायामाह-भवे संसारे, भवोऽपि प्राथमिक उत्पादोऽपि, नास्ति न विद्यते, तत्र हेतु:-प्रवाहतोऽनादित्वं, तदेव दर्शयति-असौ संसारः, प्रागपि पूर्वकालेऽपि, न भवति न विद्यते इति नैव, तथा चानादिरय कथं प्रथमत एवोत्पादभाक् स्यात् , ननु यादृशं कर्म कृतं तादृशमेव भुज्यते उतान्यथापि ? इत्याकाङ्क्षायामाह-चित् क्वचित् स्थले, मनुष्यभवादावित्यर्थः, अन्यथा कृतं अशातादिरूपेण भोग्यतया बद्धं कर्म, सर्वथैव