________________ 110 दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / . सर्वप्रकारेणैव भवपरिवर्तनादिना भिन्नेनैव प्रकारेणेत्यर्थः, अन्यथा बन्धकालीनप्रकारभिन्नप्रकारेणैव, फलति शुभाशुभफलान्यतरफलोपभोगं जनयति, यथा नरभवादी बद्धमशातावेदनीय कर्म देवभवे शातारूपेण भुज्यते, एवं शातावेदनीयं कर्म नरकभवेऽशातारूपेण भुज्यते, अथवा निकाचितावस्थामप्राप्तं कर्म सामग्रीवशादन्यथापि भुज्यत इत्यर्थः, च पुनः, इह कर्मविचारे, सुकृतं उत्कर्षतः कृतं कर्म, उत्कर्षो ह्यत्र कर्मणां मूलभेदगणनया गाढतमबन्धनात्मकनिकाचितावस्थया च बोध्यः, तत्र प्रथमे-अष्टसङ्ख्यं ज्ञानावरणीय-दर्शनावरणीय वेदनीय-मोहनीया-ऽऽयुर्नाम-ऽन्तरायमेदात् अष्टविधं कर्म भवति, नातोऽधिकम् , कर्मणां बद्धं तादृशमेव फलं तद् ददाति, नान्यथेत्यर्थः, एवं स्वरूपेण, त्वया हे जिन ! भवता. उदितं निरूपितम् , एतादृशकर्मफलोपदर्शने जिनमन्तरेण कः प्रभुरित्यर्थः // हे वीर ! यथातुराश्चतुराः कटुतरमप्यौषधं रोगोपशमननिदानमिति धिया तदुपदर्शकं वैद्यावतसकं सेवन्ते तथा घोरमपि तपो भवरोगशान्तयेऽद इति धिया तदुपदर्शकं भजन्ति भवरोगरुग्णा भव्या इत्युपदर्शयति .... कृपाकृश इवोक्तवान् यदसि वीर ! घोरं तपो भवार्तिपरिविक्लवैस्तदिति शान्तये सेव्यसे / असारभवबुद्धयस्तु भवरोगशान्तौ परे निदानमिव दृष्टदोषमवधीरितास्त्वत्सुतैः // 31 // कृपाकश इवेति / "हे वीर ! कृपाकृश इव [ त्वं ] यद् घोर तपः उत्तवान् असि तत् शान्तये इति भवातिविक्लवैः सेव्यसे, भवरोगशान्तौ दृष्टदोषं निदानमिव असारभवबुद्धयः परे तु त्वत्सुतैः अवधोरिताः" इत्यन्वयः ! हे वीर! __ "विदारयति यत् कर्म, तपसा च विराजते / तपोवीर्येण युक्तश्च, तस्माद् वीर इति स्मृतः // 12 // " इत्यादिना निरुच्यमान ! वर्तमानतीर्थप्रणेतृतयासन्नोपकारिन् ! भगवन् ! . कृपाकृश इव-कृपा-दया, तया कृश इव-सूक्ष्म इव दयाशून्य इवेत्यर्थः, यथा निर्दयो जनो दुःखसंकुलतया, कष्टकरणीयं करणीयमुपदिशति तथेत्यर्थः, यद