________________ दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / 111 बुद्धिविशेषगोचरम्, घोरं अतिकष्टसाध्यं, तपः मासोपवासादिकम् , उक्तवानसि कथितवानसि, तद् यच्छब्देनोद्दिष्टं तपः, शान्तये भवरोगोपशमनाय भवति; इति इत्येवंधिया, भवातिपरिविक्लवैः भवस्य-संसारस्य, संसारात्मकरोगस्य या आर्तिः-पीडा, तया परितः विक्लवैः न्याकुलीभूतान्तःकरणैर्भव्यजनैः, सेव्यसे स्तव-पूजादिभिस्त्वं सेवितो भवसि; तुशब्दो विशेषावगमनाय, तदेवाह-भवरोगशान्तौ संसारात्मकरोगोपशमनविधौ, दृष्टदोषं ज्ञातदोषं, निदानमिव यथा रोगोपशमनविधौ वर्ण्यमानमपि दोषग्रस्तं निदानं निराकृतं भवति तथा, असारभवबुद्धयः असारः-विविधपीडाजनकत्वेन रोगसदृशो यः, भवः-संसारः, तत्र बुद्धिः- यज्ञादिकं कृत्वा स्वर्गादिकं प्राप्स्याम इत्यादिका मतियेषां ते त्था, रोगसदृशभवरसिका इत्यर्थः, परे परे तैर्थिकाः, त्वत्सुतैः जिनशिष्यप्रशिष्यादिभिः, अवधोरिताः निराकृता भवन्ति स्म, भवरोगरसिका भवन्तः कथंकारमन्यान् तादृशरोगर हितान् कुर्युरिति पराजिता इत्यर्थः // 31 // अनन्तगुणनिधानस्य जिनप्रधानस्य कतिचिदपि गुणाः सर्वथा स्तोतुमशक्याः, अथापि ममायमायासः फलेग्रहीत्यावेदनाय पृथ्वीवृत्तोद्ग्रथितां तृतीयां द्वाविंशिका शिरिणीवृत्तानुरजितान्तिमपद्यहृद्यां विदधातिअविदितगुण ! स्तोतुं कः स्यात् प्रमेयगुणानपि त्रिभुवनगुरुः किन्त्वेवाहं तव स्तवचापलः / न तु गणयितुं चान्यापातं नय स्वहितैषिणां त्वयि समुदितानन्दं चेतो मयेत्यनुवर्तितुम् // 32 // अविदितेत्यादि / ‘हे अविदितगुण ! तव प्रमेयगुणानपि स्तोतुं त्रिभुवनगुरु कः स्याद्' इत्वन्वयः , हे अविदितगुण ! अविदिताः परिपूर्णतया यथार्थतया च न ज्ञाता गुणा यस्य सोऽविदितगुणः; तत्सम्बोधने हे अविदितगुण ! जिन !, तव भवतो जिनस्य, प्रमेयगुणानपि चारुतया गणनीयान् गुणानपि, कतिपयानपि गुणानिति भावः, आस्तामप्रमेयगुणगण इत्यपिना सूच्यते, स्तोतं सर्वाजतया स्तुतिविषयान् कर्तुम् , त्रिभुवनगुरुः भुवनत्रये गौरवशाली, कः