________________ 112 दिवाकरकृता किरणावलीकलिता तृतीया द्वात्रिंशिका / स्यात् कोऽसर्वज्ञो जनः स्यात् ? अर्थात् कश्चिदपि न / यद्वा-"अविदितगुणः” इति प्रथमास्यन्तम् “व्यत्यये लुग वा" [1.3.56] इति सेल्क, त्रिभुवनगुरुः' इत्यस्य स्थाने त्रिभुवनगुरोः' इति वा पाठः, तथा च "हे त्रिभुवनगुरो ! तव प्रमेयगुणानपि अविदितगुणः कः स्तोतुं स्यात्" इति चान्वयः, हे त्रिभुवनगुरो ! अविशेषेण सर्वेषां हितोपदेशकत्वेन भुवनत्रयशिक्षक ! हे जिन ! यद्वा तीर्थङ्करत्वेन भुवनत्रयेऽपि गुणगणगरिष्ठ ! हे भगवन् ! तव प्रमेयगुणानपि, अर्वािदतगुणः अविदिताः-असर्वज्ञत्वेन संपूर्णतया न ज्ञाताः, गुणा येन तादृशः, कः कोऽसर्वज्ञो जनः स्तोतुम् , स्यात् प्रभवेत् कश्चिदपि नेत्यर्थः; चरमान्वये-हे जिन ! इति प्रकरणप्राप्तम् , 'त्रिभुनगुरोः' इति 'तव' इत्यस्य विशेषणमन्यत् समानम् , तथा च जिनस्य प्रमेयगुणस्तवनेऽपि यदि म कोऽपि समर्थस्तहि अप्रमेयगुणस्तुतिसमर्थस्य चर्चेव केत्यर्थः / नन्वेवं तर्हि भवता क्रियमाणेयं जिनस्तुतिरपि न यथार्था तद्गुणस्तुतिरिति वृथा प्रयासोऽयमिति तटस्थाशङ्कां मनसिकृत्य पृच्छति-किन्त्विति / उत्तरयति-अहमेव सिद्धसेनदिवाकर एव, स्तवचापलः स्तबे-जिनगुणस्तुतौ, चापल:-बालवद् बलाबलमविमृश्य प्रवृत्तिकारी / ननु किमियं चपलता जिनस्य गुणान् गणयितुमादृता ? आहोस्वित् किमप्यन्यत् कर्तुमित्याकाङ्क्षायामुत्तरार्धमाह-न तु गणयितुमित्यादि / 'स्वहितैषिणां चेतोऽन्यापातं समुदितानन्दं च [यथा स्यात् तथा] त्वयि नय इति मया अनुवर्तितुं [चापलोऽस्मि] , न तु [जिनगुणान् ] गणयितुम् ' इत्यन्वयः / स्वहितैषिणां आत्मकल्याणाभिलाषुकाणां जनानां, चेतः मनः, अन्यापातं जिनभिन्ने गमनाभाववत्, समुदितानन्दं समुदितः-समुत्पन्न आनन्दो यस्य तादृशं च यथा स्यात् तथा, त्वयि भवति जिने, नय प्रापय, इति एतस्मात् कारणात् , मया सिद्धसेनदिवाकरेण, अनुवर्तितुं अनुसरणार्थ मत्कर्तृकभवदनुसरणार्थमित्यर्थः, न तु गणयितुं न तु जिनगुणान् गणयितुम् / अनया स्तुत्या जिनगुणगणनं भवतु वा मा , मम मनस्तु तदेकतानत्वाज्जिनानुवृत्त्या परम्परया परमहितमवाप्स्यतीत्यर्थः / हरिणीवृत्तमिदं च तल्लक्षणम्- "नसमरसला गः षड्वेदैर्हयैर्हरिणी मता' इति // 32 //