________________ दिवाकर कृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / . “यावज्जीवेत् सुखं जीवेणं कृत्वा घृतं पिबेत् / भस्मीभूतस्य देहस्य पुनरागमनं कुतः ? // 7 // " [ ] इत्यादिवचनानि, तथा, कः पुनः परलोकादागतः ? मूढप्रवादोऽयम्, एतावदेवेन्द्रियगोचरान्तर्वति वस्तु नोर्ध्वमित्यादिवचनानि च, विश्वासयन्ति परलोक-नरकादि-तदुपभोग्यदुःखाद्यभावे विश्वासमुत्पादयन्ति, किन्तु हि यतः, भवान् यथैव येनैव प्रकारेण, दुःख अभक्ष्यभक्षणादिनिषिद्धकर्माचरणजन्यनारकादिजन्मप्रभवदुःखमसातावेदनीयम् , अवदत् उक्तवान् , तत् दुःखं, तथा तेनैव प्रकारेण भवति, तत्सम्भवे च तथाविधदुःखसम्भवे पुनः, मतिमाने शोनवान् पुरुषः, किमिवेत्यसम्भावनायां, न कथमपि, अभयः स्यात् नरकयातनाभयरहितो भवेदित्यर्थः // 6 // भगवतो निन्दाव्याजेन स्तुतिमुपदर्शयतिस्थाने जमस्य परवादिषु नाथबुद्धि ईषश्च यस्त्वयि गुणप्रणतो हि लोकः / ते पालयन्ति समुपाश्रितजीवितानि त्वामाश्रितस्य हि कुतश्विरमेष भावः 1 // 7 // स्थान इति-परवादिषु जनस्य नाथबुद्धिः, यश्च त्वयि द्वेषः [एतदुभयं] स्थाने, हि गुणप्रणतो लोकः, समुपाश्रितजीवितानि ते पालयन्ति, त्वामाश्रितस्य हि एष भावश्चिरं कुतः ?' इत्यन्वयः / परवादिषु एकान्तनित्याऽनित्यादिपदार्थप्ररूपककपिल-गौतमादिषु, जनस्य लोकस्य, नाथबुद्धिः यथार्थतत्त्वोपदेशेन मां सम्यग् मार्गे प्रवर्तयतीत्ययं मम नाथ इति बुद्धिः, यश्च यः पुनः, त्वयि जिने, द्वेषः ममानिष्टमयमुपदिशतीति क्रोधः, तदेतदुभयं स्थाने योग्यस्थले, हि यतः, लोकः जनः, गुणप्रणतः गुणे नम्रीभूतः, यत्र गुण पश्यति तमेव नमस्करोति आश्रयति च, परवादिषु गुणाः ततस्तेषु सन्ति नाथबुद्धिः, त्वयि तु दोष एव विद्यत इति द्वेषस्त्वयि युक्ता इत्युपदर्शयति-ते इति-परवादिन इत्यर्थः, समुपाश्रितजीवितानि सम्यक् स्वचरणोपासकाः समुपाश्रिताः