________________ 16 दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / तादृशाः पुनरुद्भवन्ति, येन पत्रपुष्पफलसमृद्धिलक्ष्मीकटाक्षितास्ते सर्वजनानन्दसन्दोहजनकसौन्दर्यशालिनः, तरवो वृक्षाः, पुनरपि स्युरेव भवन्त्येव नाम, हे नाथ ! हे स्वामिन् ! त्वदर्शनानलहताः त्वदर्शनमेवानलोऽग्निस्तेभ हताःदग्धाः, जननक्लममूलपादाः जननेन-जननीगर्भनिस्सरणेन यः, क्लमोदुःखं तस्य मूलं पादाः-अंशा येषां ते जननक्लममूलपादाः, तरव इत्यनुवर्तते, ते च तरवः प्रकृते कर्मस्वरूपा ज्ञेयाः, पुनः विनाशानन्तरम् , उद्भवन्त्येव माविर्भवन्त्येव, न तु नैवेत्यर्थः // 5 // हे जिन ! विविच्य हितमहितमुपदिशतो भवतो दुःसहनानाविधनारकीयदुःखसाधनहिंसाऽसत्यस्तेयाऽब्रह्माभक्ष्यभक्षणादिपापकर्माचरणाकर्तव्यत्वबोधकनरका. ' युपदर्शकानि वचांस्युपशण्वतां नारका दिदुःखभयं भवदप्यन्ते तद्विरमणतोऽभयस्थानावाप्तिरवश्यं भाविनीत्युत्त्रासनमेव वरम् , न तु नरकादिदुःखापला पकपरवचनान्यापाततो यथेष्टाचरणकर्तव्यत्वावबोधफलकानि, आदावभीष्टसांसारिकसुखसाधने विश्वासजनकान्यप्यन्ते दुःखसाधनयथेष्टाचरणाद्यवबोधकत्वेन स्वश्रद्धापरायणान् नरके पातयन्त्येवेत्युत्त्रासकमपि भवद्वचनमेवादरणीयमिन्युपदिशति - उत्रासयन्ति पुरुषं भवतो वचांसि विश्वासयन्ति परवादिसुभाषितानि / दुःखं यथैव हि भवानवदत् तथा तत् तत्सम्भवे च मतिमान् किमिवाभयः स्यात् ? // 6 // उत्त्रासयन्तीति-'भवतो वचांसि पुरुषमुत्त्रासयन्ति. परवादिसुभाषितानि विश्वासयन्ति, हि यथैव दुःख भवान् अवदत् , तत् तथा, तत्संभवे च मतिमान् किमिव अभयः स्यात् ?' इत्यन्वयः। हे भगवन् ! भवतः तव, वांसि नरकादिप्रतिपादकवचनानि, पुरुषं लोकम् , उत्त्रासयन्ति अवश्यंभाविनरकादिभयभीतं कुर्वन्ति, परवादिसुभाषितानि एकान्तवादिनश्चार्वाकादेः सुभाषितानि-- "एतावानेव लोकोऽयं यावानिन्द्रियगोचरः / भद्रे ! वृकपदं पश्य यद्वदन्त्यबहुश्रुताः // 6 //