________________ दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / 45 पिबन्ति' इत्यन्वयः। पीतामृतेष्वपि पीतममृतं सुधा यैस्ते पीतामृतास्तेष्वपि, महेन्द्रपुरस्सरेषु महेन्द्रः पुरस्सरोऽग्रेसरो येषां ते महेन्द्रपुरस्सरास्तेषु, सुरेषु देवेषु, स्वतन्त्रसुखदुर्ललितः स्वतन्त्रं-स्वाधीन, यत् सुखम्-आनन्दः, तेन दुर्ललितः-अमनोहरचेष्टितः, मृत्युः यमः, अमृतपानं कुर्वन्तु नाम सुराः, किन्तु मृत्युस्तान् न मुञ्चति ___“अहरहर्नयमानो गामश्वं पुरुषं पशुम् / वैवस्वतो न तृप्यति सुराया इव दुर्मतिः // 5 // " इत्यादिवचनेन मृत्योर्दुर्ललितत्वं प्रसिद्धमेव / हे वीर ! तव पुनर्वाक्यामृतं भवन्मुखनिर्गतमनेकान्तवादामृतम् , विधिना शास्त्रोकोत्सर्गापवादप्रकारेण, उपयुज्य तदर्थानुष्ठानलक्षणोपभोगविषयं कृत्वा, अवशस्य अन्यानधीनस्य स्वतन्त्रस्य, मृत्योः यमस्य, शूराभिमानं 'अहं सर्वतो बलवान् वीरः' इत्यभिमानम् , पिबन्ति, मृत्योः शूराभिमानं विनाशयन्ति, मृत्युभयं तेषां न भवतीति यावदित्यर्थः // 4 // हे जिन ! भवदर्शनविनष्टजननन्दुःखमूलकर्मपादपानां पुनर्जन्माभावात् तत्प्रभवं दुःखं न भवतीत्यहो भवद्दर्शनमाहात्म्यमिति स्तौति अप्येव नाम दहनक्षतमूलजाला लक्ष्मीकटाक्षसुभगास्तरवः पुनः स्युः। न त्वेव नाथ ! जननक्लममूलपादा __ स्त्वदर्शनानलहताः पुनरुद्भवन्ति // 5 // - अप्येवेति- दहनक्षतमूलजाला लक्ष्मीकटाक्षसुभगास्तरवः पुनरपि स्युरेव नाम, हे नाथ ! त्वदर्शनानलहता जननक्रममूलपादाः पुनरुद्भवन्त्येव न तु' इत्यन्वयः / दहनक्षतमूलजालाः दहनेन-अग्निना, क्षतानि-विनष्टानि, मूलआलानि येषां ते. दहनक्षतमूलजालाः, लक्ष्मीकटाक्षसुभगाः लक्ष्म्याः -पत्रपुष्प-फलसमृद्धिलक्षणलक्ष्म्या यः, कटाक्षः-कटाक्षेणेक्षणं, तेन सुभगाः-मनोहराः, .