________________ दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / कृत्वेति-'शतमुखभ्रकुटीवितानो दैत्याधिपो नवं सुरवधूभयरोमहर्ष कृत्वा त्वत्पादशान्तिगृहसंश्रयलब्धचेता हरेः कुलिशं लज्जातनुद्युति चकार' इत्यन्वयः / शतमुखभ्रकुटीवितानः शतानां मुखानां भ्रकुटीनां वितानो विस्तारो यस्य स शतमुखभ्रकुटीवितानः, दैत्याधिपः चमरनामा दैत्यानामधिपतिः, नवं कदापि पूर्वमजातत्वादभिनवम् , सुरवधूभयरोमहर्ष सुरवधूनां-देवाङ्गनानां, भयात्-क्रुद्धदैत्याधिपतिदर्शनजन्यभयात् , रोमहर्ष रोम्णामुद्गमम् , कृत्वा हे जिन ! त्वत्पादशान्तिगृहसंश्वयलब्धचेताः त्वत्पाद एव-त्वच्चरण एव, शान्तिगृहं-भयाद्युपशमधाम, तस्य यः संश्रयः-आश्रयणं तेन लब्धचेताःउपशान्तमनस्कः, हरेः इन्द्रस्य तद्दमनायोद्यतस्य, कुलिशं वज्रम् , लजातनुद्यति यच्छिरःप्रहारार्थमहमिन्द्रेण परिगृहीतोऽस्मि स दैत्याधिपः वीरशरणगत इति तं प्रति मम प्रक्षेपोऽयुक्त इति समुद्भूतलज्जयेव, तनुश्रुतिअल्पतेजस्कम् , चकार कृतवानित्यर्थः / अभिनवोत्पन्नश्चमरनामाऽसुरेन्द्रः शिरस्थं शक्रं विलोक्य कोपाविष्टः सन् परिघं गृहीत्वा श्रीवीरं च शरणीकृत्य कृतविकरालकायः समुत्पत्य शक्रविमानवेदिकायां पादं निधायामराङ्गनागणं भापयन् शक्रमाक्रोशयामास, ततो रुष्टेन शक्रेण तं प्रति वज्रमक्षेपि, तेन भीत: सोऽधोऽवतीर्य वीरचरणयोलीनः, अनुगामि वज्रं च चतुरङ्गुलदूरं परितो बभ्राम, ज्ञातवृत्तान्तेन शक्रेणागत्य वज्रं गृहीतम् , अभिहितश्च चमरः-चरमजिनशरणीकरणान्मुक्तस्त्वं ससुखं व्रज स्वावासमिति दैत्याधिपवृत्तम् / 3 // हे भगवन् ! तव वाक्यामृतं सुरपीतामृततो वरमिति तदेव पातव्यमित्युपदिशति पीतामृतेष्वपि महेन्द्रपुरस्सरेषु मृत्युः स्वतन्त्रसुखदुर्ललितः सुरेषु / वाक्यामृतं तव पुनर्विधिनोपयुज्य शूराभिमानमवशस्य पिबन्ति मृत्योः // 4 // पीतामृतेष्वपीति-'पीतामृतेष्वपि महेन्द्रपुरस्सरेषु सुरेषु स्वतन्त्रसुखदुर्ल. लितो मृत्युः, तव' पुनर्वाक्यामृतं विधिनोपयुज्यावशस्य मृत्योः शूराभिमानं