________________ दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिशिका / 13 स्नेहपात्रं -येषां ते तथा तेषु प्रार्थितार्थसखिषु, प्रार्थितमेवार्थं मित्रवदतिस्निग्धतया मन्यमानेषु; उपनतप्रसादः उपनतः-प्राप्तः, प्रसादः अयमिष्टप्राप्त्या वर्धतामितीच्छाविशेषो यस्य स उपनतप्रसादः, न न भवसि, यतः पूर्वजन्मार्जितदुष्कृतकर्मोदयात् तदुपभोगनिष्पत्तये दुःखादिता जना भवन्ति "नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि / अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् // 4 // " इत्यादिवचनेन फलोपभोगमन्तरेण कर्मक्षयासम्भवप्रतीत्या तदुपभोग भावश्यक इति तत्र दया तत्प्रतिबन्धजननी न योग्येति घृणामुखो न भगवान् , ये खल येन केनचित् प्रकारेण प्रार्थितमेवार्थं कामयन्ते तेषां प्रार्थितार्थप्राप्तिजन्योपभोगविशेषः स्वकृततदनुकूलपूर्वकर्मोदयत एव भविष्यति, तादृशकर्मोदयाभावे कस्य सहकारित्वमासादयिष्यति प्रसादः, न तु स्वकृतसुकृतमन्तरेण प्रार्थितार्थप्राप्तिरिति न तेषु भगवान् / उपनतप्रसाद इति / हितानुरक्तान भवन्तकामिन्यादिविषयपरिपूरिते जगति यत् परमार्थतो हितं तदनुरक्तान्तदेव कामयमानान् भगवद्भक्तान् , श्राद्धान् , श्रेयसा परमकल्याणेन मोक्षसुखेन, व युनक्षि न संयोजयसि, इति न, किन्तु श्रेयसा युनक्ष्येव, आप्तजिनोपदिष्टमार्गमेवानुसरन्तो हितानुरक्ता हितं मोक्षानन्दमासादयन्त्येव, अयम् अनन्तरमेवोपदर्शितः, प्रवृत्त्यतिशयः दुःखादितेषु न घृणा, प्रार्थितार्थसखिषु प्रसादाभावः, हितानुरक्तेषु श्रेयस्संयोजनमित्येवं, प्रवृत्त्यतिशयः, त्वदनिर्गतः मुक्तिधाम गतादपि त्वत्तो न निर्गतः-न पलायितः, किन्तु त्वय्यवतिष्ठत एवेति // 2 // शरणागतवत्सल ! भयाद्वैतेऽपि तव चरणशरणमुपगतो जन्तुरुपशान्तमना रिपोरमोघमपि शस्त्रं कुण्ठितं करोतितरामित्युपदर्शयति कृत्वा नवं सुरवधूभयरोमहर्ष दैत्याधिपः शतमुखभ्रकुटीवितानः / * त्वत्पादशान्तिगृहसंश्रयलब्धचेता लज्जातनुश्रुति हरेः कुलिशं चकार // 3 //