________________ 42 दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / इति वचनादात्मतत्त्वसाक्षात्कारस्य परमयोगत्वं प्रसिद्धम् , “अयं हि परमो योगो यद्योगेनात्मदर्शनम्' [ ] इति वचनं च तत्र प्रमाणम् , आत्मतत्त्वसाक्षात्कारश्च केवलज्ञानलक्षणो जिनस्य सर्वदा विद्यते / आदिसावयम् "साङ्ख्य-योगौ पृथग बालाः प्रवदन्ति न पण्डिताः / एकमप्यास्थितः सम्यगुभयोविन्दते फलम् // 2 // यत्साङ्खथैः प्राप्यते स्थानं तद्योगैरपि गम्यते / एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति // 3 // ". गीता० अ० 5, श्लो-४,५] इत्यादिवचनेन मुक्तिफलकज्ञानविशेष एव साङ्ख्यम् , आदि:-प्रथम, साङ्खयं-ज्ञानं यस्य स आदिसाङ्ख्यस्तम् / उक्ताखिलविशेषणविशिष्टं त्वां जिनं यो न आनाति स हितान्यपि न जानाति, अहितपरित्यागिजिनगृहीतधर्माणामेव हितत्वादित्यभिसन्धिः / “ज्ञेया वसन्ततिलका तभजा जगौ गः” इति लक्षण. लक्षितत्वाद् वसन्ततिलकावृत्तम् , एवमग्रेऽपि // 1 // मुक्तिधाम गतस्यापि जिनस्य प्रवृत्त्यतिशयो विद्यत एवेत्युपदर्शयतिदुःखादितेषु न च नाम घृणामुखोऽसि न प्रार्थितार्थसखिषूपनतप्रसादः / . न श्रेयसा च न युनक्षि हितानुरक्तान् नाथ ! प्रवृत्त्यतिशयस्त्वदनिर्गतोऽयम् // 2 // दुःखादितेष्विति-'हे नाथ ! दुःखार्दितेषु न च नाम घृणामुखोऽसि, प्रार्थितार्थसखिषूपनतप्रसादो न, हितानुरक्तान् श्रेयसा च न युनक्षि न, अयं प्रवृत्त्यतिशयस्त्वदनिर्गतः इत्यन्वयः' / हे नाथ ! त्रिभुवनस्वामिन् भगवन् ! त्वं दुःखादितेषु दुःखपीडितेषु जनेषु, नामेति कोमलामन्त्रणे, न च नैव, घृणामुखोऽसि घृणा-सत्त्वानुकम्पा, मुख-प्रधानं यस्य स घृणामुखः, दयाप्रधानो दयार्द्रचेतास्त्वमसि-भवसि; प्रार्थितार्थसखिषु प्रकर्षेणार्थना-ममेदं भवत्वितीच्छा, तद्विषयः प्रार्थितः, प्रार्थित चासावर्थच प्रार्थितार्थः, प्रार्थितार्थः सखा-मित्रं नाथ /